________________
-
-
पाक्षिकसू०
॥६३॥
SLCOMSECRECERY
पिच्चा भविस्सामीत्यादि" इह च सूत्रे यदीपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपञ्चयत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गमिति । "रायप्पसेणइयन्ति” राज्ञः प्रदेशिनाम्नः प्रश्नानि तान्युपलक्षणभूतान्यधिकृत्य प्रणीतमध्ययनं राजप्रश्नीयमिदमप्युपाङ्गं सूत्रकृताङ्गस्येति । तथा “जीवाभिगमोत्ति"जीवानामुपलक्षणत्वादजीवानां चाभिगमो ज्ञानं यत्र स जीवाभिगमो ग्रन्थः, सोऽपि स्थानाङ्गस्योपाङ्गमिति । तथा 'पण्णवणत्ति' जीवादीनां प्रज्ञापनं प्रज्ञापना। बृहत्तरा महाप्रज्ञापना । एते च समवायाङ्गस्योपाङ्ग इति ।तथा "नन्दित्ति" नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, पञ्चप्रकारज्ञानस्वरूपप्रतिपादकोऽध्ययनविशेष इति । तथा “अणुओगदाराइन्ति" अनुयोगो व्याख्यानं तस्य द्वाराण्युपक्रमादीनि चत्वारि मुखान्यनुयोगद्वाराणि तत्स्वरूपप्रतिपादकोऽध्ययनविशेषोऽभेदोपचारादनुयोगद्वाराणीत्युच्यते । तथा “देविन्दत्थओत्ति" देवेन्द्राणां चमरवैरोचनादीनां स्तवनं भवनस्थित्यादिस्वरूपादिवर्णनं यत्रासौ देवेन्द्रस्तव इति । तथा "तन्दुलवेयालियन्ति" तन्दुलानां वर्षशतायुष्कपुरुषप्रतिदिनभोग्यानां सङ्ग-याविचारेणोपलक्षितो ग्रन्थविशेषः तन्दुलवैचारिकमिति । तथा "चन्दाविज्झयन्ति" इह चन्द्रो यन्त्रपुत्रिकाक्षिगोलको गृह्यते, तथा आ मर्यादया विध्यत इति आवेध्यं, तदेवावेध्यकं, चन्द्रलक्षणमावेध्यकं चन्द्रावेध्यकं राधावेध इत्यर्थः । तदुपमानमरणाराधनाप्रतिपादको ग्रन्थविशेषश्चन्द्रावेध्यकमिति । तथा "सूरपण्णत्तित्ति" क्वचित् पाठस्तदर्थमुपरि वक्ष्यामः । तथा “पमायप्पमायन्ति" प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादं, तत्र प्रमादस्वरूपं महाकम्र्मेन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचि
॥१३॥
Jain Education in
For Private & Personel Use Only
NMainelibrary.org