________________
Jain Education In
कारणं समुप्पन्नं । ता अहमवि निज्जूहामि । ताहे आढत्तो निज्जूहिउं । जाव थोवावसेसे दिवसे दस अज्झयणा निज्जूढा । तेणेदं दसवेयालियं भणिज्जइ । इमं च मणगेण छहिं मासेहिं पढियं । तओ समाहीए कालं गओत्ति । यथा चानेनैतावता श्रुतेनाराधितमेवमन्येऽप्येतदध्ययनानुष्ठानतः आराधका भवन्तीति वृद्धाः। तस्मिंश्च कालगते अहो आराधितमनेनेत्यानन्दाश्रुपातं शय्यम्भवस्थविरा अकार्षुः । ततो यशोभद्रेण शय्यम्भवप्रधानशिष्येण गुर्धश्रुपातदर्शनात् किमेतदाश्चर्यमिति विस्मितेन भगवन् किमेतदकृतपूर्वं क्रियते इति पृच्छा कृता । ततः शय्यम्भवेन भगवता संसारस्नेह ईदृशः, सुतोऽयं मम, बलवानपत्यस्नेहोऽत्रापराध्यतीति कथितं । ततो यशोभद्रादयो “ गुराविव गुरुपुत्र के वर्त्तितव्यमिति विद्वत्प्रवादो” नचायमस्माभिः कृत इत्यनुतापं चक्रुस्ततो गुरुणा प्रतिबन्धदोषपरिहारार्थं न मया कथितं, नात्र भवतां दोष इति वदता परिसंस्थापितास्ते । ततः शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रं निर्व्यूढं, किमत्र युक्तमिति सङ्घाय निवेदिते विचारणा कृता यदुत कालहा सदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदिति नोपसंहृतं प्रवचनगुरुणेति” । तथा " कप्पियाकप्पियन्ति" कल्पयाकल्प्यप्रतिपादकं कल्पयाकल्प्यं । तथा "चुलकप्पसुयं महाकप्पसुयन्ति” कल्पनं कल्पः स्थविरकल्पादिस्तत्प्रतिपादकं श्रुतं कल्पश्रुतं तत्पुनर्द्वि भेदमेकमल्पग्रन्थमल्पार्थं च, द्वितीयं महाग्रन्थं महार्थं च ॥ तथा" ओवाइयन्ति” प्राकृतत्वात् वर्णलोपे औपपातिकं उपपतनमुपपातो देवनारकजन्म सिद्धिगमनं च तमधिकृत्य कृतमध्ययनमौपपातिकमिदं चोपाङ्गं वर्त्तते । आचाराङ्गस्य हि प्रथममध्ययनं शस्त्रपरिज्ञा, तस्याद्योदेशके सूत्रमिदं " एवमेगेसिं नो नायं भवइ, अत्थि वा मे आया उववाइए, नत्थि वा मे आया उववाइए । के वा अहं आसी, के वा इहए
For Private & Personal Use Only
ainelibrary.org