Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 141
________________ त्रकर्मोदयसाचिव्यजनितासरिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते सत्त्वः स | खलु प्रमाद इति । भेदा मद्यादयस्तत्कारणत्वादुक्तं च "मजं विसय कसाया निद्दा विगहा य पश्चमी भणिया । एए पञ्च पमाया जीवं पाडन्ति संसारे" । फलविपाको दारुणः उक्तं च "श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन । संसारबन्धनगतैर्नतु प्रमादः क्षमः कर्तुम् । १ । अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याजन्मान्तरशतानि । २ । यन्न प्रयान्ति पुरुषाः स्वर्ग यच्च प्रयान्ति विनिपातम् । अत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे । ३ । संसारबन्धनगतो जातिजराव्याधिमरणदुःखार्त्तः । यन्नोद्विजते सत्त्वः सोऽप्यपराधःप्रमादस्य । ४ । आज्ञाप्यते यदवशस्तुल्योदरपाणिपादवदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य । ५ । इह हि प्रमत्तमनसः सोन्मादवदनिभृतेन्द्रियाश्चपलाः । यदकृत्यं तत्कृत्वा सततमकार्येष्वभिपतन्ति ।६। तेषामभिपतितानामुद्धान्तानां | प्रमत्तचित्तानाम् । वर्द्धन्त एव दोषा वनतरव इवाम्बुसेकेन ।७। इत्यादि"। प्रतिपक्षद्वारेणाप्रमादस्वरूपादयो वाच्या इति। तथा "पोरिसिमंडलन्ति” पुरुषः शङ्कः शरीरं वा तस्मान्निष्पन्ना पौरुषी । इयमत्र भावना । यदा सर्वस्य वस्तुनः स्वप्रमाणा छाया जायते तदा पौरुषी, इत्येतच्च पौरुषीमानं उत्तरायणान्ते दक्षिणायनादौ वैक दिनं भवति, तत ऊईमङ्गलस्याष्टावेकषष्टिभागा दक्षिणायने वर्द्धन्ते उत्तरायणे च इसन्तीति । एवं पौरुषी मण्डले २ अन्या २ प्रतिपाद्यते तदध्ययनं पौरुषीमण्डलमिति । तथा "मण्डलप्रवेश" इति यत्रेह चन्द्रसूर्ययोईक्षिणोत्तरेषु मण्डलप्रवेशो वर्ण्यते तदध्ययन मण्डलप्रवेश इति । तथा "गणिविज्जत्ति” गुणगणोऽस्यास्तीति गणी स चाचार्यस्तस्य विद्या ज्ञानं गणिविद्या, तत्रा Jain Education a l For Private & Personel Use Only W w.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170