Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 128
________________ . वृत्तिः पाक्षिकसू०य नाणे परमट्ठो उत्तमट्ठो एस तित्थंकरहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छज्जी-18 दावनिकायसञ्जम उवएसियं तेल्लोक्कसक्कयं ठाणं अब्भुवगया ॥ ॥५ ॥ | इत्येतदनन्तरोक्तं महाव्रतोच्चारणं व्रतोत्कीर्तनं कृतमिति शेषोऽत्र च को गुण इत्याह-थिरत्तमित्यादि, अथवा तत् कथंभूतमित्याह-थिरत्तन्ति, महाव्रतेष्वेव धर्मे वा स्थैर्यहेतुत्वात् स्थिरत्वं निश्चलत्वं, भवति चासन्नसमाधेः सत्त्वविशेषस्य तत्करणश्रवणादिभ्यः संवेगातिशयान्महाव्रतेषु धर्मे वा निष्पकम्पतेति । शल्यानां मायाशल्यादीनामुद्धरणकारणत्वाच्छल्योद्धरणमिदमिति । तथा धृतेश्चित्तसमाधेबलमवष्टम्भो धृतिबलं तत्कारणत्वान्महाव्रतोच्चारणमपि धृतिबलं स्वार्थिककप्रत्ययोपादानात् धृतिबलकं, धीबलं वा धृतिबलं वा ददातीति धृतिबल दंधीबलदं वेत्युच्यते, जायते चासकृत्तद्वासितमतेधूतिबलमिति । एवमन्यत्रापि भावना कार्या, तद्यथा व्यवसायो दुष्करकरणाध्यवसायः, तथा साहणहोत्ति साध्यतेऽनेन साध्यमिति साधनं साधकतमकरणं तल्लक्षणोऽर्थः पदार्थः साधनार्थः मोक्षारूयपरमपुरुषार्थनिष्पत्त्युपाय इत्यर्थः, तथा पावनिवारणन्ति पापस्याशुभकर्मणो निवारणं निषेधकं पापनिवारणं, तथा निकायणत्ति निकाचनेव निकाचना द स्वव्रतप्रतिपत्तिदृढतरनिबन्ध इत्यर्थः, शुभकर्मणां वा निकाचनाहतुत्वान्निकाचनेदमुच्यते, नच सरागसंयमिनामय-टू मर्थो न घटत इति, तथा भावविसोहित्ति भावस्यात्मपरिणामस्य जलमिव वस्त्रस्य विशोधिकारणत्वाद्भावविशोधिर्भावनिर्मलत्वहेतुरित्यर्थः, तथा पडागाहरणन्ति पताकायाश्चारित्राराधनावैजयन्त्या हरणं ग्रहणं पताकाहरणमिदं, लोके हि मल्लयुद्धादिषु वस्त्रमाभरणं द्रव्यं वा ध्वजाने बध्यते, तत्र यो येन युद्धादिना गुणेन प्रकर्षवान् स रङ्गमध्ये पुरतो भूत्वा ॥ ५७॥ Jain Education in For Private Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170