Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ACCORRECORDCROCOCCALCOM
यदाह “विदारयति यत्कम्में तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः” इतरवीरापेक्षया महांहै चासौ वीरश्चेति महावीरस्तस्यामन्त्रणं हे महावीर! पुनरपि किंविशिष्ट ? वर्द्धमान स्वकुलसमृद्धिहेतुतया पितृभ्यां कृतवर्द्ध
मानाभिधान! कुतस्ते नमस्कारोऽस्त्वित्याह-सामिस्सत्ति विभक्तिव्यत्ययादिति कृत्वेति प्रत्येकमभिसंबन्धाच्च स्वामीतिकृत्वा प्रभुरितिहेतोः, तथा नमो नमस्कारोऽस्तु ते इति कुत इत्याह-अरहओत्ति उक्तहेतुभ्यां अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहतीत्यर्हन् स इतिकृत्वा, नमोऽस्तु ते कुत इत्याह-भगवतोत्ति भगवानितिकृत्वा भगवानितिहेतोः
तत्र भगः समग्रैश्वर्यादिलक्षणः । उक्तं च "ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य षण्णां भगदाइतीगना" स विद्यते यस्येति भगवानिति । अथवा महइ महत्ति रूढिवशादतिमहान् स चासौ वीरश्चातिमहावीरः सचासी
वर्द्धमानश्चातिमहावीरवर्द्धमानः सचासौ स्वामी तस्मै, तथा नमोऽस्तु ते अर्हते, तथा नमोऽस्तु ते भगवते इतिकृत्वा इति हेतोः यतस्त्वमुक्तविशेषणोऽतस्ते नमोऽस्त्वितिभावः। अथवा कथं नमोऽस्त्वित्याह-तिकट्ठत्ति त्रिकृत्त्वः त्रीन् वारा| निति, प्रतिवाक्यं च नमस्क्रियाभिधानं स्तुतिप्रस्तावाददुष्टमिति ॥ यथा महाव्रतोच्चारणं कर्मक्षयाय तथा श्रुतोत्कीतनमपि कर्मबिलयायेति महाव्रतोत्कीर्तनं निगमयन् श्रुतोत्कीर्तनं कर्तुकाम इदमाह
एसा खलु महत्वयउच्चारणा कया इच्छामो सुत्तकित्तणं काउं॥ | एषानन्तरोक्ता, खलुक्यालङ्कारमात्रे, महाव्रतोच्चारणा महाव्रतसंशब्दना, कृतोक्तन्यायेन विहिता, साम्प्रतं इच्छामोहै ऽभिलषामः, श्रुतकीर्तनां आगमग्रन्थाभिधानसंशब्दनां, कर्तु विधातुमिति । तत्पुनः श्रुतं समासतो द्विविधं प्रज्ञप्तं
Jan Education
a
l
For Private Personal use only

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170