Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 135
________________ ५० ११ प्रकारैरनघमनुष्ठितं तद्दुःखक्षयाय शारीरमानसासातोच्छेदाय, कर्म्मक्षयाय ज्ञानावरणाद्यदृष्टविनाशाय, मोक्षाय परमनिःश्रेयसाय, बोधिलाभाय प्रेत्यसद्धमवाप्तये, संसारोत्तारणाय भवभ्रमणपारगमनाय, अस्माकं भविष्यतीति गम्यते, इतिकृत्वा इतिहेतोरुपसंपद्याङ्गीकृत्य, विहरामीति वचनव्यत्ययाद्विहरामो मासकल्पादिना साधुविहारेण वर्त्तामहे इति । तथा अन्तोपक्खस्स जं न वाइयं न पढियं न परियद्वियं न पुच्छियं नाणुपेहियं नाणुपालियं सन्ते बले सन्ते वीरिए सन्ते पुरिसकारपरक्कमे तस्स आलोएमो पडिक्कमामो निन्दामो गरहामो विउमो विसोहेमो अकरणयाए अब्भुमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दुक्कडं ॥ अत्र नवशेषितसूत्राणि पूर्ववद्व्याख्येयानि, कस्मिन् विद्यमानेपि वाचनादि न कृतमित्याह-सति विद्यमाने बले शारीरे प्राणे, तथा सति विद्यमाने वीर्ये जीवप्रभवे प्राणे एव, तथा सति पुरुषकारपराक्रमे तत्र पुरुषकारः पुरुषाभिमानः | स एव निष्पादितफलः पराक्रम इति, तस्स आलोएमोत्ति विभक्तिव्यत्ययात्तदवाचितादिकमालोचयामो गुरवे निवेदयामः, तथा पडिक्कमामोत्ति प्रतिक्रामामः प्रतिक्रमणं कुर्म्मः, तथा निन्दामोति निन्दामः स्वसमक्षं जुगुप्सामहे, आहच "सच - रित्तपच्छयावो निन्दत्ति” तथा गरहामोत्ति गर्हामो गुरुसमक्षं जुगुप्सामहे आहच “गरहावि तहाजाइयमेव नवरं परप्पयासणयत्ति” तथा विउट्टेमोत्ति व्यतिवर्त्तयामो वित्रोटयामो विकुट्ट्यामो वा अवाचनाद्यनुबन्धं व्यवच्छेदयाम इत्यर्थः, विसोहेमोत्ति विशोधयामः प्रकृतदोषपङ्कमलिनमात्मानं विमलीकुर्म्मः, तथा अकरणतया पुनर्न करिष्याम इत्येव For Private & Personal Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170