Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाक्षिकसू०
वृत्तिः
॥६०॥
अभिलाषातिरेकेण रोचयामः आसेवनाभिमुखतया रुचिविषपीकुम्मेः इत्यर्थः, नच प्रीतिरुची न भिन्ने, यतः कचिद्दध्यादौ प्रीतिसद्भावेपि न सर्वदा रुचिरतो विभिन्नताऽनयोरिति, फासेमोत्ति स्पृशामः आसेवनाद्वारेण छुपामः, पालेमोत्ति पाठोऽशुद्ध इव लक्ष्यः, अणुपालमोत्ति अनुपालयामः पौनःपुन्यकरणेन, यदि पुनः प्रसिद्धत्वात् पालेमोत्ति पदमवश्यं व्याख्येयं तदा पालयामः पौनःपुन्यकरणेन रक्षामः, एतच्च कतिपयदिनपालनेऽपि स्यादतः अनुपालयामः पालनादनु पश्चादाजन्मापीत्यर्थः पालयामोऽनुपालयामः । तथा I ते भावे सद्दहन्तेहिं पत्तियन्तेहिं रोयन्तेहिं अणुपालन्तेहिं अन्तोपक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसा. रुत्तारणाए तिकट्ठ उवसंपज्जित्ताणं विहरामि ॥
तान् भावान् श्रद्दधानैरेवमेवैतदितिसामान्येन प्रतीतिं कुर्वाणः, प्रतिपद्यमानविशेषप्रीतिकरणद्वारेण मन्यमानैः, रोचयद्भिरभिलाषातिरेकेण आसेवनाभिमुखत या रुचिविषयीकुर्वद्भिरित्यर्थः, स्पृशद्भिरासेवनाद्वारेण च्छुपद्भिः, पालयद्भिरिति पदमत्रापि न विद्मः, तदङ्गीकारे च पूर्ववदर्थविशेषो वाच्यः, अनुपालयद्भिः पौनःपुन्यकरणेन रक्षय द्भः, अन्तर्मध्ये पक्षस्य चन्द्राभिधानार्द्धमासस्य, यत्किमपि, वाचितं अन्येभ्यः प्रदत्तं, पठितं स्वयमधीतं, परिवर्तितं सूत्रतो गुणितं, पृष्टं पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रच्छनं विहितमित्यर्थः, अनुप्रेक्षितमर्थविस्मरणभयादिना चिन्तितं, अनुपालितं एभिरेव
Jain Education
a
l
For Private & Personel Use Only
Whjainelibrary.org

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170