________________
पाक्षिकसू०
वृत्तिः
॥१५॥
MAKAASAAMANA
स्वरूपापरिज्ञानेन । ३। अथवा व्यवहारतः श्रवणावगमसद्भावेऽपि अणभिगमेणंति अनभिगमन सम्यगप्रतिपत्त्येत्यर्थः अथवा अभिगमेण वत्ति विभक्तिव्यत्ययादभिगमे वा सम्यग्धर्मप्रतिपत्तौ वा प्रमादेन मद्यविषयादिलक्षणेन । १ ।। तथा रागद्वेषप्रतिबद्धतया रागद्वेषाकुलतयेत्यर्थः। २ । तथा बालतया शिशुतया अपण्डिततया वा ।३। तथा मोहतया| विचित्ततया मोहनीयकायत्ततया वा ।४। तथा मन्दतया कायजडतया अलसतयेत्यर्थः । ५। तथा किड्डयाएत्ति क्रीडतया केलीकिलतया द्यूतादिक्रीडनपरतयेत्यर्थः । ६। तथा त्रिगौरवगुरुकतया ऋद्धिरससातलक्षणगौरवत्रिकभा-| |रिकतया ।७। तथा चतुःकषायोपगतेन क्रोधाद्युदयवशगमनेनेत्यर्थः । ८। तथा पञ्चेन्द्रियाणां स्पर्शनादिहषीकाणां | उप सामीप्येन वश आयत्तता वर्णलोपात्पञ्चेन्द्रियोपवशस्तेन यदातमार्तध्यानं विह्वलतेत्यर्थः पञ्चेन्द्रियोपवशाः तेन ।९। तथा पडुपन्नभारियाएत्ति । इह प्रत्युत्पन्नं वर्तमानमुत्पन्नं वोच्यते तंतश्च प्रत्युत्पन्नश्चासौ भारश्च कर्मणामिति गम्यते प्रत्युपन्नभारः स विद्यते यस्यासौ प्रत्युत्पन्नभारी तस्य भावः प्रत्युत्पन्नभारिता तया कर्मगुरुतयेत्युक्तं भवति । |पाठान्तरस्तु प्रतिपूर्णभारितया भावार्थः पूर्ववत् । १० । तथा सातात्सातवेदनीयकर्मणः सकाशात्सुखं शर्म सातसुखं, अथवा सातं च तत्सुखं च सातसुखमतिशयसुखं तदनुपालयताऽनुभवता सुखासक्तमनसेत्यर्थः । पाठान्तरे तु सदा है सर्वकालं सुखमनुपालयतेति व्यक्तम् । ११ । इहं वत्ति बिन्दुलोपात् इह वास्मिन्ननुभूयमाने भवे मनुष्यजन्मनि, अन्येषु वा अस्माजन्मनोऽपरेषु भवग्रहणेषु जन्मोपादानेषु प्राणातिपातः कृतो वा स्वयं निवर्त्तितः, कारितो वाऽन्यैर्विधापितः, |क्रियमाणो वा विधीयमानः परैरन्यैः समनुज्ञातोऽनुमोदितस्तं प्राणातिपातं । निन्दामि स्वप्रत्यक्षमेव जुगुप्से, तथा
॥१५॥
Jain Education in
For Private & Personal Use Only
ainelibrary.org