Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाक्षिकस
वृत्तिः
यथाऽजिनोपि जिनोऽयं अन इति । एवेत्ति रूपापेक्षया प्रत्य वस्त्वन्तरं सत्यं प्रतीत्यसमय
कत्वेन व्यवहारप्रवृत्त्यङ्गत्वाच्चेत्येवं शेषेष्वपि भावना कार्येति । समयत्ति संमतं च तत्सत्यं चेति संमतसत्यं तथाहि- कुमुदकुवलयकमलारविन्दादीनां समाने पङ्कसंभवे गोपालादीनामपि संमतमरविन्दमेव पङ्कजमिति, तत्र कुमुदं चन्द्र-18 विकाशि कुवलयं नीलोत्पलं, कमलं रविकरविकासि अरविन्दं स्थलपद्ममिति, अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति । ठवणत्ति स्थाप्यत इति स्थापना यल्लेप्यादिकमर्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं यथाऽजिनोपि जिनोऽयं अनाचार्योप्याचार्योऽयमिति । नामेत्ति नामाभिधानं तत्सत्यं नामसत्यं, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति । रूवेत्ति रूपापेक्षया सत्यं रूपसत्यं यथाप्रपञ्चयतिःप्रवजितरूपं धारयन् प्रवजित उच्यते न चासत्यताऽस्येति । “पडुच्चसच्चे यत्ति" प्रतीत्याश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं यथानामिकाया दीर्घत्वं हस्वत्वं चेति तथा हि तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्य-18 ता। ववहारेत्ति व्यवहारेण सत्यं व्यवहारसत्यं यथा दह्यते गिरिगलति भाजनं, अयं च गिरिंगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलति सतीति । भावत्ति भावं भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यं यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वात् शुक्लेति । योगत्ति योगतः संबन्धतः सत्यं यथा दण्डयोगाद्दण्डः छत्रयो-18 गाच्छत्र एवोच्यते। दशममौपम्यसत्यमिति उपमेवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागः देवोऽयं, सिंहस्त्वमिति । सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति "समाहिठाणत्ति" समाधे रागादिरहितचित्तस्य स्थानान्याश्रयाः समाधिस्थानानि तान्यपि दश तद्यथा “नो इत्थीपसुपण्डगसंसत्ताई सयणासणाई सेवित्ता भवइ" नो नैव स्त्रियो देवीनारी
॥५०॥
Jain Education Inter
For Private & Personel Use Only
D
ainelibrary.org

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170