Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तिरश्श्योऽत्रासमाधिदोषः प्रतीत एव, पशवो गवादयस्तत्संसक्तौ हि तत्कृतविकारदर्शनाच्चित्तविकारः संभाव्यत इति ।। पण्डकाश्च नपुसकानि तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एव, एतैः संसक्तानि समाकीर्णानि स्त्रीपशुपण्डकसंसक्तानि शयनासनानि संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च सेविता तेषां सेवको भवति साधुरित्येकं १ । तथा 'नोइत्थीणं कहं कहेत्ता भवति" नो स्त्रीणां केवलानामिति गम्यते कथां धर्मदेशनादिलक्षणवाक्यप्रवन्धरूपां तन्नेपथ्यादिवर्णनरूपां वा कथयिता तत्कथको भवति साधुरिति द्वितीयं २ “नो पणीयरसभोई भवइ” नो गलस्नेहबिन्दुभोक्ता भवति मुनिरिति तृतीयं ३ "नो पाणभोयणस्स अइमायं आहारित्ता भवई” नो पानभोजनस्य रूक्षस्याप्यतिमात्रं "अद्धमसणस्से"त्यादिप्रमाणातिक्रान्तमाहारकोऽभ्यवहर्ता भवति खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोग्रहणमिति चतुर्थ ४ "नो पुवरयपुबकीलियाई सरित्ता भवति" नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसंभोगानुभवनं तथा पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं स्मर्त्ता चिन्तयिता भवतीति पञ्चममिति ५ "नो इत्थीगणाई सेवित्ता भवई" नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि निषद्याः स्त्रीस्थानानि तानि सेविता भवति कोऽर्थः ? स्त्रीभिः सहकासने नोपविशेदुत्थितास्वपि हि तासु मुहूर्त नोपविशेदिति षष्ठम् ६ “नो इत्थीणं इन्दियाई मणुन्नाई मणोरमाई
आलोइय २ निज्झाइत्ता भवई” नो स्त्रीणामिन्द्रियाणि नयननासिकादीनि मनो हरन्ति दृष्टमात्राण्याक्षिपन्तीति मनो8|हराणि तथा मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याल्हादयन्तीति मनोरमाण्यालोक्यालोक्य निर्ध्याता दर्शहानानन्तरमतिशयेन चिन्तयिता यथाहो लवणत्वं लोचनयोः ऋजुत्वं नासावंशस्येत्यादि भवति साधुरिति सप्तममिति ७
Jain Education in
For Private & Personal Use Only
MMiainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170