Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तद्वक्तव्यताप्रतिवद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरौपपातिकदशा नवममङ्गमिति ४ तथा आचरणमाचारो ज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरा दशा दशाध्ययनामिका आचारदशाः दशाश्रुतस्कन्ध इति या रूढाः ५ तथा प्रश्नाश्च पृच्छा व्याकरणानि च निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशा दशाध्ययनात्मिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति ६ तथा बन्धदशाः ७ द्विगृधिदशाः ८ दीर्घदशाः सङ्केपिकदशाश्चाप्रतीता एता इति ॥ तथा "समणधम्मचत्ति" श्राम्यन्तीति श्रमणाः साधवस्तेषां धर्मः क्षान्त्यादिलक्षणः श्रमणधर्मस्तं च दशविधमुपसंपन्न इत्यादि पूर्ववत्, सचायं "खन्ती य मद्दवजवमुत्ती तवसंजमे य बोधवे । सच्चं सोयं आकिञ्चणं बंभं च जइधम्मो” तत्र क्षान्तिः क्रोधविवेकः, मार्दवं मानपरित्यागेन वर्त्तनं, आर्जवं मायापरित्यागः, मोचनं मुक्तिर्लोभपरित्यागः, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणः, सत्यं मृषावादविरतिः, शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः, आकिञ्चन्यं कनकादिरहितता, ब्रह्म च ब्रह्मचर्यमिति । अन्ये त्वेवं श्रमणधर्म पठन्ति “खन्ती मुत्ती अज्जव मद्दव तह लाघवे
तवे चेव । सञ्जमचियागकिञ्चण बोधबे बंभचेरे य” तत्र लाघवम् प्रतिवद्धता त्यागः संयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वदिति ॥ 18 अथाशातनावर्जनतो महाव्रतरक्षणमाह
आसायणं च सवं तिगुणं एकारसं विवजन्तो। उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ २२॥
आयं ज्ञानादिलाभं शातयतीत्याशातना अहंदादेरवज्ञेत्यर्थस्तां विवर्जयन्निति योगः, किंविशिष्टां । सर्वो समस्तां सामान्येन, अथवा “ तिगुणं एक्कारसन्ति” चशब्दस्येह संबन्धात्रयो गुणा गुणकारका यस्य स त्रिगुणस्तमेकादशं चैकादशाङ्क
RA
Join Education
For Private & Personal Use Only
N
ainelibrary.org

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170