SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तद्वक्तव्यताप्रतिवद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरौपपातिकदशा नवममङ्गमिति ४ तथा आचरणमाचारो ज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरा दशा दशाध्ययनामिका आचारदशाः दशाश्रुतस्कन्ध इति या रूढाः ५ तथा प्रश्नाश्च पृच्छा व्याकरणानि च निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशा दशाध्ययनात्मिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति ६ तथा बन्धदशाः ७ द्विगृधिदशाः ८ दीर्घदशाः सङ्केपिकदशाश्चाप्रतीता एता इति ॥ तथा "समणधम्मचत्ति" श्राम्यन्तीति श्रमणाः साधवस्तेषां धर्मः क्षान्त्यादिलक्षणः श्रमणधर्मस्तं च दशविधमुपसंपन्न इत्यादि पूर्ववत्, सचायं "खन्ती य मद्दवजवमुत्ती तवसंजमे य बोधवे । सच्चं सोयं आकिञ्चणं बंभं च जइधम्मो” तत्र क्षान्तिः क्रोधविवेकः, मार्दवं मानपरित्यागेन वर्त्तनं, आर्जवं मायापरित्यागः, मोचनं मुक्तिर्लोभपरित्यागः, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणः, सत्यं मृषावादविरतिः, शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः, आकिञ्चन्यं कनकादिरहितता, ब्रह्म च ब्रह्मचर्यमिति । अन्ये त्वेवं श्रमणधर्म पठन्ति “खन्ती मुत्ती अज्जव मद्दव तह लाघवे तवे चेव । सञ्जमचियागकिञ्चण बोधबे बंभचेरे य” तत्र लाघवम् प्रतिवद्धता त्यागः संयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वदिति ॥ 18 अथाशातनावर्जनतो महाव्रतरक्षणमाह आसायणं च सवं तिगुणं एकारसं विवजन्तो। उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ २२॥ आयं ज्ञानादिलाभं शातयतीत्याशातना अहंदादेरवज्ञेत्यर्थस्तां विवर्जयन्निति योगः, किंविशिष्टां । सर्वो समस्तां सामान्येन, अथवा “ तिगुणं एक्कारसन्ति” चशब्दस्येह संबन्धात्रयो गुणा गुणकारका यस्य स त्रिगुणस्तमेकादशं चैकादशाङ्क RA Join Education For Private & Personal Use Only N ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy