SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पाक्षिकस वृत्तिः यथाऽजिनोपि जिनोऽयं अन इति । एवेत्ति रूपापेक्षया प्रत्य वस्त्वन्तरं सत्यं प्रतीत्यसमय कत्वेन व्यवहारप्रवृत्त्यङ्गत्वाच्चेत्येवं शेषेष्वपि भावना कार्येति । समयत्ति संमतं च तत्सत्यं चेति संमतसत्यं तथाहि- कुमुदकुवलयकमलारविन्दादीनां समाने पङ्कसंभवे गोपालादीनामपि संमतमरविन्दमेव पङ्कजमिति, तत्र कुमुदं चन्द्र-18 विकाशि कुवलयं नीलोत्पलं, कमलं रविकरविकासि अरविन्दं स्थलपद्ममिति, अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति । ठवणत्ति स्थाप्यत इति स्थापना यल्लेप्यादिकमर्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं यथाऽजिनोपि जिनोऽयं अनाचार्योप्याचार्योऽयमिति । नामेत्ति नामाभिधानं तत्सत्यं नामसत्यं, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति । रूवेत्ति रूपापेक्षया सत्यं रूपसत्यं यथाप्रपञ्चयतिःप्रवजितरूपं धारयन् प्रवजित उच्यते न चासत्यताऽस्येति । “पडुच्चसच्चे यत्ति" प्रतीत्याश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं यथानामिकाया दीर्घत्वं हस्वत्वं चेति तथा हि तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्य-18 ता। ववहारेत्ति व्यवहारेण सत्यं व्यवहारसत्यं यथा दह्यते गिरिगलति भाजनं, अयं च गिरिंगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलति सतीति । भावत्ति भावं भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यं यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वात् शुक्लेति । योगत्ति योगतः संबन्धतः सत्यं यथा दण्डयोगाद्दण्डः छत्रयो-18 गाच्छत्र एवोच्यते। दशममौपम्यसत्यमिति उपमेवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागः देवोऽयं, सिंहस्त्वमिति । सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति "समाहिठाणत्ति" समाधे रागादिरहितचित्तस्य स्थानान्याश्रयाः समाधिस्थानानि तान्यपि दश तद्यथा “नो इत्थीपसुपण्डगसंसत्ताई सयणासणाई सेवित्ता भवइ" नो नैव स्त्रियो देवीनारी ॥५०॥ Jain Education Inter For Private & Personel Use Only D ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy