SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Jain Education In स्वासंवरोऽनिग्रहो मनोऽसंवर एवं वागसंवरः कायासंवरश्च ८ तथा उपकरणस्याप्रतिनियताकल्पनीयवस्त्रादेरसंवरो ग्रहणमुपकरणासंवरः अथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्यासंचरणमुपकरणासंवरः । अयं चौधिकोपकरणापेक्षः ९ तथा सूच्याः कुशाग्राणां शरीरोपघातकारिणां यदसंवरणमसङ्गोपनं स सूचीकुशाग्रासंवरः, एष तूपलक्षणत्वात्समस्तौ| पग्रहिकोपकरणापेक्षो द्रष्टव्य इति । सङ्किलेसं च त्ति संक्लेशोऽसमाधिः तं च दशविधं परिवर्जयन्नित्यादि पूर्ववत्सचायं - उपधीयते उपष्टभ्यते संयमः संयमप्रधानं शरीरं वा येन स उपधिर्वस्त्रादिस्तद्विषयः संक्लेश उपधिसंक्लेशः १ तथोपाश्रयो वसतिस्तद्विषयः संक्लेशो मनोज्ञामनोज्ञादिद्वारेणासमाधानमुपाश्रयसंक्लेशः २ तथा कषाया एव कपायैपूर्वा संक्केशः कपायसं क्लेशः ३ तथा भक्तपानाश्रितः संक्लेशो भक्तपानसंक्लेशः ४ तथा मनसो मनसि वा संक्लेशो मनःसंक्केशः ४ तथा वाचा संक्लेशो वाक्संक्लेशः ६ तथा कायमाश्रित्य संक्लेशः कायसंक्लेशः ७ तथा ज्ञानस्य संक्लेशोविशुद्ध्यमानता ज्ञानसंक्केशः ८ एवं दर्शनसंक्लेशः ९ चारित्रसंक्लेशश्चेति १० ॥ २० ॥ तथा सच्चसमाहिट्ठाणा दस चेव दसाओ समणधम्मं च । उवसंपन्नो जुत्तो रक्खामि महवए पञ्च ॥ २१ ॥ सन्तः प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं तद्दशविधं तद्यथा “ जणवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्च सच्चे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्म १० सच्चे य " जणवयत्ति सत्यशब्दः प्रत्येकमभिसंबन्धनीयः, ततश्च जनपदेषु यद्यदर्थवाचकतया रूढं देशान्तरेपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यं यथा कौङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदे द्विष्ठार्थप्रतिपत्तिजन For Private & Personal Use Only jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy