Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ACANCECAUCRACROCOCCAL
क्षालितस्य वा सर्वदोषमलरहितस्य । १३ । अथ ( तथा ) त्यक्ता हानि नीता अभावमापादिता इतियावद्दोषा मिथ्यात्वाज्ञानादिदूषणानि येनासौ त्यक्तदोषः । अथवा त्यक्तो द्वेषोऽप्रीतिलक्षणो यस्मिन्नसौ त्यक्तद्वेषस्तस्य ।१४। अत एव गुणग्राहिणो गुणग्रहणशीलस्य कप्रत्ययविधानाद्गुणग्राहिकस्य वा पाठान्तरं तथाहि-प्रकृतधर्मचारिणो गुणवद्गुणोपबृंहणपरा एव भवन्त्यन्यथा धर्मस्यैवाभावप्रसङ्गात् । यदाह-"नो खलु अप्परिवडिए निच्छयओमइलिए व सम्मत्ते । होइ तओ परिणामो जुत्तोणुववूहणाईया" । १५ । तथा निर्गतो विकारः कामोन्मादलक्षणो यस्मादसौ निर्विकारस्तस्य । १६ । तथा निवृत्तिलक्षणस्य सर्वसावद्ययोगोपरमस्वभावस्य । १७। तथा पंचमहाव्रतयुक्तस्येतिप्रतीतं नवरं अहिंसालक्षणस्येसाद्यभिधानेप्यस्याभिधानं महाव्रतानां प्राधान्यख्यापनार्थमनुक्तमहाव्रतसंग्रहार्थं च तथाहि-नात्रादत्तादानं कण्ठतः केनापि विशेषणेनाभिहितमतो युज्यतेऽस्य विशेषणस्योपन्यास इति । १८। तथा न विद्यते संनिधिमोदकोदकखजूरहरीतक्यादेः पर्युषितस्य संचयो धारणं यत्रासावसंनिधिसंवयस्तस्य । १९ । तथा अविसंवादिनो दृष्टेशविरोधिनः पाठान्तरे वा अविसंवादितस्य सद्भूतप्रमाणाबाधितस्येत्यर्थः । २०। तथा संसारपारं भवार्णवतीरं गमयति तदारूढप्राणिनः पोतवत्प्रापयतीति संसारपारगामी तस्य, कप्रत्ययोपादानात् संसारपारगामिकस्य वा । २१ । तथा निर्वाणगमनं मुक्तिप्राप्तिः, पर्यवसाने आनुषङ्गिकसुरमनुजसुखानुभवपर्यन्ते, फलं कार्य, यस्यासौ निर्वाणगमनपर्यवसानफलस्तस्य । २२ । एवंविधस्य धर्मस्य पूर्व प्रतिपत्तिकालात्प्राक् अज्ञानतया सामान्यतोऽवगमाभावेन । १। तथाश्रवणतया प्रज्ञापकमुखादनाकर्णनभावेन ।२। अथवा श्रवणेपि अबोहिएत्ति अबोध्या अबोधेन यथावद्धर्म
Shin Educh an interneto
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170