SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ACANCECAUCRACROCOCCAL क्षालितस्य वा सर्वदोषमलरहितस्य । १३ । अथ ( तथा ) त्यक्ता हानि नीता अभावमापादिता इतियावद्दोषा मिथ्यात्वाज्ञानादिदूषणानि येनासौ त्यक्तदोषः । अथवा त्यक्तो द्वेषोऽप्रीतिलक्षणो यस्मिन्नसौ त्यक्तद्वेषस्तस्य ।१४। अत एव गुणग्राहिणो गुणग्रहणशीलस्य कप्रत्ययविधानाद्गुणग्राहिकस्य वा पाठान्तरं तथाहि-प्रकृतधर्मचारिणो गुणवद्गुणोपबृंहणपरा एव भवन्त्यन्यथा धर्मस्यैवाभावप्रसङ्गात् । यदाह-"नो खलु अप्परिवडिए निच्छयओमइलिए व सम्मत्ते । होइ तओ परिणामो जुत्तोणुववूहणाईया" । १५ । तथा निर्गतो विकारः कामोन्मादलक्षणो यस्मादसौ निर्विकारस्तस्य । १६ । तथा निवृत्तिलक्षणस्य सर्वसावद्ययोगोपरमस्वभावस्य । १७। तथा पंचमहाव्रतयुक्तस्येतिप्रतीतं नवरं अहिंसालक्षणस्येसाद्यभिधानेप्यस्याभिधानं महाव्रतानां प्राधान्यख्यापनार्थमनुक्तमहाव्रतसंग्रहार्थं च तथाहि-नात्रादत्तादानं कण्ठतः केनापि विशेषणेनाभिहितमतो युज्यतेऽस्य विशेषणस्योपन्यास इति । १८। तथा न विद्यते संनिधिमोदकोदकखजूरहरीतक्यादेः पर्युषितस्य संचयो धारणं यत्रासावसंनिधिसंवयस्तस्य । १९ । तथा अविसंवादिनो दृष्टेशविरोधिनः पाठान्तरे वा अविसंवादितस्य सद्भूतप्रमाणाबाधितस्येत्यर्थः । २०। तथा संसारपारं भवार्णवतीरं गमयति तदारूढप्राणिनः पोतवत्प्रापयतीति संसारपारगामी तस्य, कप्रत्ययोपादानात् संसारपारगामिकस्य वा । २१ । तथा निर्वाणगमनं मुक्तिप्राप्तिः, पर्यवसाने आनुषङ्गिकसुरमनुजसुखानुभवपर्यन्ते, फलं कार्य, यस्यासौ निर्वाणगमनपर्यवसानफलस्तस्य । २२ । एवंविधस्य धर्मस्य पूर्व प्रतिपत्तिकालात्प्राक् अज्ञानतया सामान्यतोऽवगमाभावेन । १। तथाश्रवणतया प्रज्ञापकमुखादनाकर्णनभावेन ।२। अथवा श्रवणेपि अबोहिएत्ति अबोध्या अबोधेन यथावद्धर्म Shin Educh an interneto For Private & Personal use only www.jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy