SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ AAAAAA पाक्षिकसू० राण्यक्तानुसारतः स्वयं व्याख्येयानीति । किंविशिष्टस्य? केवलिप्रज्ञप्तस्य सर्वज्ञोपदिष्टस्य शतथा अहिंसा प्राणिसंरक्षणं लक्षणं चिहं यस्याप्तौ अहिंसालक्षणः सत्त्वानुकम्पानुमेयसंभव इत्यर्थस्तस्योरा तथा सत्येनावितथभाषणेनाधिष्ठितः समाश्रितःसत्या॥१४॥ माधिष्ठितः सत्यवचनव्याप्त इत्यर्थस्तस्य । ३ । तथा विनयो विनीतता मूलं कारणं यस्यासौ विनयमूलो विनयप्रभव इत्यर्थस्तस्य ।४। तथा क्षान्तिः क्षमा प्रधाना सारभूता यस्यासौ क्षान्तिप्रधानस्तस्य ।५। तथा हिरण्यं रजतं सौवर्णिकं सुवर्णमयं कनककलशादि न विद्यते हिरण्यसौवर्णिके यत्रा(स्या)सौ अहिरण्यसौवर्णिक उपलक्षणत्वात्सर्वपरिग्रहरहित इत्यर्थस्तस्य ।। तथोपशम इन्द्रियनोइन्द्रियजयस्तस्मात्प्रभवो जन्मोत्पत्तिर्यस्यासौ उपशमप्रभव इन्द्रियमनोनिग्रहलभ्य इत्यर्थस्तस्य तथा नव ब्रह्मचर्याणि गुप्तिशब्दलोपात् वसतिकथाद्या नवब्रह्मचर्यगुप्तयस्ताभिर्गुप्तः संरक्षितो नवब्रह्मचर्यगुप्तिगुप्तस्तस्य तथा 81न विद्यन्ते पचमानाः पाचका यत्रासौ अपचमानः पाकक्रियाविनिवृत्तसत्त्वासेवित इत्यर्थः । अथवा पचते पचमानो न पचमानोऽपचमानो धर्मो धर्मम्मिणोरभेदोपचारादेवमन्यत्रापि द्रष्टव्यम् ।९। अत एव भिक्षावृत्तेभिक्षया भक्तादेः परतो याचनेन वृत्तिवर्तनं धर्मसाधककायपालनं यत्रासौ भिक्षावृत्तिस्तस्य।१०॥ तथा कुक्षावेव बहिःसंचयाभावाजठर एव शम्बलं पाथेयं यत्रासौ कुक्षिशबम्लस्तस्य । ११ । तथा निर्गतमग्नेः पावकाच्छरणं शीतादिपरित्राणं यत्र । अथवा निर्गते स्वीकाराभावादग्निशरणे वह्निभवने यत्रासौ निरग्निशरणः । अथवा निर्गतमग्नेः स्मरणं यत्रासौ निरग्निस्मरणस्तस्य ।।१२ तथा संप्रक्षालयति कर्ममलं शोधयतीत्येवंशीलः सम्प्रक्षाली तस्य कप्रत्ययोपादानाद्वा सम्प्रक्षालिकस्य सम्प्र ॥१४॥ -500-56 Jain Education For Private Personel Use Only w.jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy