________________
Jain Education Inter
प्रायेणैतद्भङ्गविषयत्वादस्य, तथा येनोपभोगपरिभोगपरिमाणं ग्राह्यं तेन निरवद्याहारादि ग्राह्यं, सचित्तादिपरिहारेण निरवयो- निर्दोषः स चासावाहारश्च - अशनं निरवद्याहारस्तद् (आदौ यस्य) आदिशब्दादल्पसावद्यादि, न केवलमिदं कार्य, तथा तेनाधर्मवृत्तिपरित्यागश्च कार्यः, अधर्मवृत्तिनामाङ्गारकर्मवन कर्मादिलक्षणा पापजीविका तस्याः परित्यागः - अकरणं, यदुक्तम्- " निरवज्जाहारेणं निज्जीवेणं परित्तमी सेणं । अप्पा संघारेज्जा कम्मं च चए स सावज्जं ॥१॥ " कर्म च - व्यापारं | त्यजेत् स सावद्यं - सावद्याग्न्यारम्भादिसमन्विताङ्गारकर्मादि, तदुक्तम् - " इंगाले १ वण२साडी ३ भाडी ४ फोडीसु५वज्जए कम्मं । वाणिज्जं चैव य दंत ६ लक्ख ७ रस ८ केस ९ विस १० विसयं ॥ १ ॥ एवं खु जंतपीलण कम्मं ११ निलंछणं च १२ दवदाणं १३ । सरदहतलायसोसं १४ असईपोसं च वज्जेज्जा १५ ॥ २ ॥ " एतदर्थस्तु वृद्ध - संप्रदायादवसेयः, स चायम् - अङ्गारकर्मेति - अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वधः स्यात्, ततस्तन्न कल्पते १, वनकर्म - यद्वनं क्रीणाति, ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २ शकटीकर्म यच्छाकटिकत्वेन जीवति, तत्र गवादीनां बन्धवधादयो दोषाः स्युः ३, भाटीकर्म - यत्स्वकीयेन तन्त्रेण भाटकेन परकीयं भाण्डं वहति अन्येषां वा शकटबलीवर्दादीनर्पयतीति ४स्फोटीकर्म - उड्डत्वं यद्वा हलेन भूमेः
For Private & Personal Use Only
www.jainelibrary.org