Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
|| यथाऽद्य महाराज ! मधुकरीगीतं नाम नाट्यविधि दर्शयिष्यामि, एवमस्त्विति प्रतिपन्ने चक्रवर्तिनाऽपराह्नसमये प्रारब्धो नर्तितुमसौ, अत्र चावसरे दासचेटया सकलकुसुमसमृद्धं समर्पितं ब्रह्मदत्तस्य कुसुमदामगण्डं, तत्प्रेक्षमाणस्य ।। मधुकरीगीतं च शृण्वतः समजनि विकल्पो-मयैवंविधो नाटकविधिदृष्टपूर्वः क्वचिदिति, ततः सौधर्मदेवलोकवर्त्तिनलिनीगुल्मविमानानुभूतः स्मृतोऽसौ, स्मृतपूर्वभवतत्प्रत्ययेन पाश्चात्यभवा अपि चत्वारः स्मृताः, तदनु जगाम मूर्छा,
पपात च पृथ्वीतले, पार्श्ववर्तिना च सामन्तादिलोकेन सरसचन्दनानुलेपनेन कृतः समाश्वस्तः, ततोऽसौ स्मृतपूर्वभवः । ॥ भ्रातृव्यतिकरस्तदन्वेषणाय रहस्यमभिन्दान एव बभाण निजहृदयनिर्विशेषं महामात्यवरधनुं, यथाऽस्य नगरस्य ।
त्रिकचतुष्कचत्वरादिप्रदेशेषु घोषयवं-" आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा ।” अस्याईश्लोकस्य य उत्तराई विरचयति तस्य राजा राज्याई प्रयच्छति, वरधनुना यथाऽऽज्ञापयति देवस्तथा करोमीति प्रतिपाद्य प्रारंभे प्रतिदिवसमेव तथा कर्तु, लिखित्वा तदर्थमनेकपत्रकेष्ववलम्बितमनेकस्थानेषु, अत्रावसरे स|| पूर्वभविकचित्राभिधानः तत्सहोदरजीवो यः पुरिमतालनगरवास्तव्यस्येभ्यस्य पुत्रत्वेनोत्पन्नः स जातजातिस्मरणो | गहीतव्रतस्तत्रैवागत्य समवसतो मनोरमाभिधानकानने, तत्र प्राशुके भूभागे निक्षिप्य पात्राद्युपकरणं स्थितो धर्म
Jain Educaton Inter!
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710