Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 702
________________ श्रीनवबृह संलेखनायां स्कन्दक कथा श्रावस्त्यां नगर्यामतिपरिचितचतुर्दशविद्यास्थानः परिव्राजकसमयरहस्यवेदी त्रिदण्डकुण्डिकायुपकरणधारी भावनाद्वार गा.१३७ स्कन्दकाभिधानः परिव्राजकः प्रतिवसति स्म, तस्यां च तदा बभूव पिङ्गलकनामा समुपलब्धजीवाजीवादिपदार्थसार्थपरमतत्त्वो भगवतो वईमानस्वामिनः सदुपदेशरहस्यश्रावकः प्रधानः शिष्यः, स च कदाचिदुटजव्यवस्थितस्य । स्कन्दकपरिव्राजकस्य समीपमुपगत्यैवमुक्तवान्-भो भोः स्कन्दक ! किं शाश्वता लोकजीवसिद्धसिद्धिपदार्था अशा-oil श्वता वा ?, केन वा मरणेन म्रियमाणो जीवः संसारं वर्धयति ? हापयति वा ?, द्वित्रा वाराः पृष्टश्चैवं यावदसौ मौनमालम्ब्य स्थितस्तावत्पिङ्गलको गतः स्वस्थानं, अत्रान्तरे तस्या एव नगर्या बहिवर्तिनि कोष्ठकाभिधानोद्याने । समवसृतो भगवन्महावीरतीर्थकरः, आकर्णितो जनपरम्पराप्रवादतः स्कन्दकपरिव्राजकेन, चिन्तितं च-त्रिकालदर्शी भगवान् श्रूयते, तद्गत्वा पृच्छामि तदहं यत्पृष्टः पिङ्गलकेन, ततो गृहीत्वा त्रिदण्ड कुण्डिकाछत्रपादुकादि निजोपकरणं । प्रस्थितो भगवतो महावीरतीर्थकरस्याभिमुखं, अत्रान्तरे भणितः परमेश्वरेण गौतमस्वामी, यथा-गौतम ! द्रक्ष्यसि त्व। मद्यपूर्वसङ्गतिकं, गौतम उवाच-कं भदन्त ! द्रक्ष्यामि ?, भगवतोदितं-स्कन्दकपरिव्राजकं, गौतमो बभाण-कथं ?, ३३६ ॥ ततः स्वामिना निवेदितं यावत्सविस्तरं तदीयमागमनकारणं तावत्समाययौ तमेव देशं स्कन्दपरिव्राजकः, आभाषितः । Jain Education Hellonal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710