Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
_ 'इति । अमुना पूर्वोक्तप्रकारेण 'नवपदं । नवपदाभिधानं 'तुः , पूरणे 'एतत् । प्रकरणं 'रचितं ' कृतं, केनेत्याह-'शिष्येण ' अन्तेवासिना, कस्य ?–' कक्कसूरेः । ककुदाचार्यस्य, 'गणिना ' भगवत्यङ्गविहितोपधानेन | जिनचन्द्रेण' जिनचन्द्रनाम्ना, किमर्थमित्याह-स्मरणार्थमात्मन इति गम्यते, अनुग्रहार्थं च श्रोतृणामिति शेषः, न तु “सड्डाणमणुग्गहट्टाए'त्यनेनैवानुग्रहार्थमित्युक्तमेव इह पुनः किमर्थ ?, सत्यं, यदादावुक्तं तदेव पर्यन्ते निगमितमिति न दोष इति गाथार्थः ॥ इयं च गाथा पूज्यपादैः स्वटीकायां न व्याख्याता, सूत्रादशेषु पुनर्लिखिता दृश्यत । इति मया व्याख्यातेति ॥ इति श्रीमदूकेशगच्छीयश्रीकक्काचार्यशिष्येण जिनचन्द्रगणिना श्रीदेवगुप्ताचार्य इत्युत्तरनाम्ना विरचितस्य नवपदप्रकरणस्य विस्तरवती विवृतिः समाप्तेति ॥
उत्सूत्रमत्र रचितं यदनुपय गान्मया कुयोधाय । तच्छोधयन्तु सुधियः सदाशया मयि विधाय कृपाम् ॥१॥ विलसद्गुणमणिनिकरः, पाठीनविराजितो नदीनश्च । जलनिधिरिवास्ति गच्छः श्रीमानकेशपुरनिसृतः ॥ २ ॥ तत्रासीदतिशायिबुद्धिविभवश्वारित्रिणामग्रणीः, सिद्धान्तार्णवपारगः स भगवान् श्रीदेवगुप्ताभिधः । सूरिभू रिगुणान्वितो जिनमतादुद्धृत्य येन स्वयं, श्रोतृणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥ ३ ॥ तेनैव स्वपद
in Education Intemanal
For Private
Personal Use Only

Page Navigation
1 ... 705 706 707 708 709 710