Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 701
________________ पणमामि अहं निचं अणसणविहिणा य निरइयारेहिं । जेहिं कयं चिय मरणं, दिलुतो खंदएणेत्थ ॥ १३७ ॥ 'प्रणमामि ' प्रकर्षेण नमस्करोमि 'अह । मित्यात्मनिर्देशे 'नित्यं । सदा, तान् सद्यतीनिति गम्यते, यैः । किमकारीत्याह-'अणसणविहिणा य निरइयारेहिं जेहिं कयं चिय मरणं, ति, 'अनशनविधिना' भक्तपरिज्ञाविधानेन 'चः पूरणे निरतिचारैः' इहलोकाशंसाद्यतिचारविप्रमुक्तैर्यैः कृतमेव' विहितमेव 'मरणं, प्राणत्यागरूपं, यैरुपात्तपुण्यप्राग्भारैः शुभाध्यवसायबलनिबद्धसुदेवाद्यायुष्कैनमस्कारप्रत्याख्यानादिसामग्रीसमन्वितैर्नि । रतिचारैः सदिलोंकचमत्कारकारि मरणमाराधितं तानहं प्रणौमीति तात्पर्य, एवंविधं च त्रिकालमनुस्मरणं गुणवद्वहुमानबुद्धिवासितान्तःकरणस्य शुभभावनास्वभावं, गुणाधिकविषयप्रमोदस्य पुण्यबन्धहेतुतया प्रतीतत्वात्, यस्तु गुरुकी परसुकृतानुमोदनं कर्तुं न शक्नोति तस्य कुतः शुभा भावनेति, 'दृष्टान्तः' निदर्शनं स्कन्दकेन ' भगवईमानस्वामिशिष्येण 'अत्र' निरतिचारानशने, द्रष्टव्य इति शेष इति गाथासमासार्थः ।। व्यासार्थस्तु कथानकादवसेयः, तच्चेदम्-- Jain Education Intel For Private & Personel Use Only Marww.jainelibrary.org

Loading...

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710