Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 699
________________ तदा शोभनं भवति, एवमाशंसां कुर्वाणस्य मरणाशंसाप्रयोगः ३ तथा जीवितस्याशंसा-वाञ्छा जीविताशंसेति चतुर्थोऽतिचारः, अयं च तदा भवति यदा कश्चिदात्मनो महती पूजां लोकेन क्रियमाणामालोक्य वैयावृत्त्यकरादीनामादरं चात्मविषयं दृष्ट्वा चिन्तयत्येवं-यथा सुन्दरं भवति यदि कानिचिदिनान्येवमेव जीवामि, प्रतिप्रन्नानशनस्य । गुवीं मे लोकात्पूजेति ' कामभोगे य तह 'त्ति काम्यत इति कामः-शब्दरूपलक्षणो भुज्यत इति भोगो-रसगन्धस्पर्शस्वभावस्तस्मिन् कामे भोगे च, तेन पूर्वोक्तेन प्रकारेण तथा, आशंसाप्रयोग इति सम्बन्धः, अनेन च कामभोगाशंसाप्रयोगः पञ्चमोऽतिचारः सूचितः, अस्य च तदा विषयो यदाऽनशनीहलोकपरलोकगतान् कामभोगानाकाङ्क्षतीति, न चेहपरलोकाशंसाऽतिचारान्तर्गतत्वादयं पृथग् न वचनीय इति वाच्यं, यतस्तत्र स्वजात्यपेक्षया यदा । मनुष्यः सन् मनुष्येपूत्पद्यते तदा परभवोऽपीहलोकशब्देन विवक्षितः, परलोकस्तु विजातीयो देवेन्द्रादिभवः, इह तु सामान्येनैव ये कामभोगा ऐहभविकाः पारभविकाश्च ते विवक्षिता इति पृथगुपादानमस्याऽविरुद्धमेवेति, अयं च | पञ्चमोऽतिचारोऽत एव 'मरणंते पंच अइयार' त्ति मरणं-प्राणत्यागस्तस्यान्तहेतुत्वान्मरणान्तः संलेखनोच्यते तस्मिन् मरणान्ते 'पञ्चातिचाराः' पञ्चसङ्ख्या अतिक्रमविशेषाः, एतांश्च स्वरूपतो ज्ञात्वा मतिमान् विवर्जयेदिति भावार्थः Jain Educationale For Private Personal Use Only Trwww.jainelibrary.org

Loading...

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710