Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 684
________________ ॥ ३२७॥ श्रीनववृह-ध्यानगतः कायोत्सर्गेण, इह प्रस्तावे झटित्याकर्ण्य " आस्व दासा " वित्यादि श्लोकार्डमारघट्टिकेन पठ्यमानं प्राह| दोषद्वारे वा__ दवृत्तौ । मुनि:-" एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियक्तयोः॥१॥" ततोऽसावारघट्टिकस्तत् श्लोकाई पत्रके विलिख्य संलेखनायां लमरणे माते कथा प्रमोदोत्फुल्लवदनो गतो राजकुलं, पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः, ततः स्नेहातिरेकेण गतो राजा मूछौं, तत| आरघट्टिकस्योपरि कुपिता सभा, रोषवशगतया च तयैतद्वचनेन राजेदृशीं दशां गत इति चपेटाभिर्हन्तुमारब्धोऽसौ, हन्यमानेनोक्तं-न मयाऽयं पूरित इति विलपन्नसौ मोचितः कदर्थकेभ्यः, पृष्टश्च कोऽस्य-पूरकः ? इति, स प्राहIN अरघट्टसमीपवर्ती मुनिरिति, ततो राजा चन्दनरससेकादिभिलब्धचेतनोऽवगतमुनिवरागमवृत्तान्तस्तक्तिस्नेहाK| कृष्टचित्तः सपरिकरो निर्ययौ, ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, सविनयमुपविष्टस्तदन्तिके, मुनिना , प्रारब्धा देशना, दर्शिता भवनिर्गुणता, वणिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसौख्याति५ शयः, ततः संविग्ना परिषत् , न भावितो ब्रह्मदत्तः, प्राह च-भगवन् ! यथा स्वसङ्गमसुखेनाह्लादिता वयं तथाऽऽह्लादIN यतु भगवान् राज्यस्वीकरणेन, पश्चात्तपः समभेव करिष्यावः, एतदेव तपसः फलं, मुनिराह-न युक्तमिदमुदारचेतसां || भवतामभिधातुं, केवलं दुर्लभोऽयं मनुष्यभवः सततं गत्वरमायुः चञ्चला श्रीः अनवस्थिता धर्मबुद्धिर्विपाककटवो ।।३२७. Jain Education NIFI For Private Personal Use Only sllww.jainelibrary.org

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710