Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 675
________________ जातायां षष्ठाष्टमदशमहादशाईमासमासक्षपणादिविचित्रतपाकर्मादिभिरात्मानं भावयन्तौ ग्रामानुग्रामेण विहरन्तौ । कदाचित्प्राप्ती हस्तिनागपुरं, स्थितौ तबहिर्वर्त्तिन्युद्याने, अपरेयुर्मासक्षपणावसाने पारणकनिमित्तं संभूतिसाधुः । प्रविष्टो नगर, उज्झितधर्मिकां भिक्षामभिलषन्नीर्यासमितो गृहे २ पर्यटितुमारेभे, भवितव्यतानियोगेन । ददृशे निजगहाद्विनिर्गतेन नामान्तरे गन्तुमिच्छुना तेन मन्त्रिणा, प्रथममेवास्यामङ्गलभूतं । मुखमवलोकितमित्युपजातकोपेन ताडितो गाढकशाप्रहारैः, निकटमागतेन प्रत्यभिज्ञातश्च स एष मातङ्गन्दारको । यस्तदा मया पाठितः तद्यावदेष मां न प्रत्यभिजानाति तावद्विनाशयाम्येनं, अन्यथा राज्ञस्तदन्यलोकानां चैष प्रकटीकरिष्यति मच्चरितमिति चिन्तयता यष्टिमुष्टयादिघातैर्बहुतरं कदीमानो विकृष्टतपश्चरणक्षीणबलतया वेपमानकाय यष्टिः पतितो धरणीतले, अहह ! निरपराधस्यास्य मुनेः किमेतदारब्धमेतेनेति ब्रुवाणो मिलितस्तत्रानेको लोकः, तन्मध्ये च केनचिदुक्तं-यद्यस्य साधोस्तपःसामर्थ्य किञ्चिदभविष्यत्तदैष मन्त्री खिलीकुर्वस्तत्क्षणादेव किं न । विनाशमवाप्स्यत् ?, तदेवंविधशक्तिविकलो निरर्थक एवैतस्य दुष्करस्तपःक्लेश इति, एतदाकर्ण्य स महामुनिः । कोपमुपगतस्तद्विनाशनाय मोक्तुमारब्धस्तेजोलेश्यां, ततः कृष्णाभ्रपटलैरिव बहलधूमोत्पीलैर्निरुघलोकलोचनप्रसरो For Private Personal Use Only Jain Education Interational allwww.jainelibrary.org

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710