Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 676
________________ श्रीनव० वृह द्रवृत्तौ संलेखनायां ॥ ३२३ ॥ Jain Education Inter विजृम्भितो घनान्धकारः, भय कौतुका कृष्टमानसाः निकटीभूय नागरकाः परिदृष्टमुनिक्रोधविलसिता अभिवन्द्य प्रवृत्ताः प्रसादयितुं, कुतोऽप्यवगतवृत्तान्तः सनत्कुमारोऽप्याजगाम तत्प्रसादनाय, विरचिताञ्जलिपुटः प्रणम्य बभाण च - क्षम्यतां महामुने ! यदनार्यचेष्टितेन केनाप्यपराडं, क्षमाप्रधाना हि साधवो भवन्तीति प्रतिसंहियतां तपस्तेजः, | क्रियतां जीवितप्रदानेनास्य जनस्य प्रसादः, एवमभ्यर्थ्यमानोऽपि चक्रवर्त्तिना यावदसौ नोपशाम्यति तावच्चित्रमुनिः महामुनिः कोऽपि कुपित इति जनप्रवादमाकर्ण्य बहलधूमान्धकारितं गगनाङ्गणं चावलोक्य समाययौ तं प्रदेशं, जिनभाषितानुसारिवचनैः कथं कथमप्युपशमितः संभूतिसाधुः समाश्वस्तचेताः संवेगमुपगतो - हा दुष्कृतं | कृतमिति प्रजल्प्य समुत्थाय ततः प्रदेशात्सह चित्रमुनिवरेण गतस्तदेवोद्यानं, तन्निमित्तवैराग्येण च जीवितनिर्विण्णाभ्यां ताभ्यां प्रतिपन्नमनशनं, सनत्कुमारचक्रिणाऽपि विज्ञाय पूर्जनात् मन्त्रिव्यतिकरं तदुपरि विहितक्रोधेन बन्धयित्वा दृढरज्जुबन्धनैरयमानायितः साधुसमीपं प्रत्यभिज्ञातस्ताम्यां, मोचितोऽनुकम्पया, | सनत्कुमारचक्रवर्त्ती चानशन प्रतिपत्तिमवगत्य साधोः सान्तःपुरस्तद्वन्दनार्थमाजगाम तदुद्यानं, अन्तःपुरसमन्वितेन तेन वन्दितौ भावसारं चित्रसंभूतितपस्विनौ, अत्रान्तरे कथञ्चित्स्त्रीरत्नस्य सुनन्दायास्तपस्विपादपतनमाचरन्त्याः | ॥ ३२३ ॥ For Private & Personal Use Only दोषे बालम रणे संभूति कथा. www.jainelibrary.org

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710