________________
श्रीनव० वृह
द्रवृत्तौ
संलेखनायां
॥ ३२३ ॥
Jain Education Inter
विजृम्भितो घनान्धकारः, भय कौतुका कृष्टमानसाः निकटीभूय नागरकाः परिदृष्टमुनिक्रोधविलसिता अभिवन्द्य प्रवृत्ताः प्रसादयितुं, कुतोऽप्यवगतवृत्तान्तः सनत्कुमारोऽप्याजगाम तत्प्रसादनाय, विरचिताञ्जलिपुटः प्रणम्य बभाण च - क्षम्यतां महामुने ! यदनार्यचेष्टितेन केनाप्यपराडं, क्षमाप्रधाना हि साधवो भवन्तीति प्रतिसंहियतां तपस्तेजः, | क्रियतां जीवितप्रदानेनास्य जनस्य प्रसादः, एवमभ्यर्थ्यमानोऽपि चक्रवर्त्तिना यावदसौ नोपशाम्यति तावच्चित्रमुनिः महामुनिः कोऽपि कुपित इति जनप्रवादमाकर्ण्य बहलधूमान्धकारितं गगनाङ्गणं चावलोक्य समाययौ तं प्रदेशं, जिनभाषितानुसारिवचनैः कथं कथमप्युपशमितः संभूतिसाधुः समाश्वस्तचेताः संवेगमुपगतो - हा दुष्कृतं | कृतमिति प्रजल्प्य समुत्थाय ततः प्रदेशात्सह चित्रमुनिवरेण गतस्तदेवोद्यानं, तन्निमित्तवैराग्येण च जीवितनिर्विण्णाभ्यां ताभ्यां प्रतिपन्नमनशनं, सनत्कुमारचक्रिणाऽपि विज्ञाय पूर्जनात् मन्त्रिव्यतिकरं तदुपरि विहितक्रोधेन बन्धयित्वा दृढरज्जुबन्धनैरयमानायितः साधुसमीपं प्रत्यभिज्ञातस्ताम्यां, मोचितोऽनुकम्पया, | सनत्कुमारचक्रवर्त्ती चानशन प्रतिपत्तिमवगत्य साधोः सान्तःपुरस्तद्वन्दनार्थमाजगाम तदुद्यानं, अन्तःपुरसमन्वितेन तेन वन्दितौ भावसारं चित्रसंभूतितपस्विनौ, अत्रान्तरे कथञ्चित्स्त्रीरत्नस्य सुनन्दायास्तपस्विपादपतनमाचरन्त्याः |
॥ ३२३ ॥
For Private & Personal Use Only
दोषे बालम
रणे संभूति
कथा.
www.jainelibrary.org