________________
Jain Education Interface
सुकुमाराल कस्पर्शमनुभूय संभूतिसाधुना समुदीर्णमोहोदयेन कृतो निदानबन्ध:-यदि मत्कृतस्यास्य तपसः किञ्चित्फलमस्ति तदा जन्मान्तरेऽहमेवंविधस्य स्त्रीरत्नस्य स्वामी भवेयं, न गणितश्चास्माद्दुरध्यवसायान्निवर्त्तयंश्चित्रसाधुः, आयुः पर्यवसाने च मृत्वा द्वावप्युत्पन्नौ सौधर्मदेवलोके नलिनीगुल्मविमाने देवत्वेन, तत्र च प्रभूतकालं देवभवानुरूपं सुखमनुभूय कदाचिच्च्युत्वा ततश्चित्रजीवः पुरिमतालनगरवास्तव्यस्य गुणपुञ्जनामधेयस्य श्रेष्ठिनो नन्दायाः पत्न्याः पुत्रो जातः इतश्च संभूतिजीवः काम्पिल्यपुरे ब्रह्मनरपतेश्व लिन्या महादेव्याश्चतुर्दशमहास्वप्नसूचितः समजनि तनयः, विहितं च क्रमेण ब्रह्मदत्त इति नाम, ब्रह्मराजस्य चोत्तमराजवंशसंभूताश्चत्वारो राजानः सुहृदोऽभूवन्, एकः काशीविषयाधिपतिः कटकराजो द्वितीयो गजपुरनेता कणेरुदत्तोऽन्यश्च कोशलदेशस्वामी दीर्घनृपतिश्चतुर्थश्चम्पानायकः । पुष्पचूलश्चेति, ते चात्यन्तस्नेहेनान्योऽन्यं वियोगमनिच्छन्तः समुदिता एव संवत्सरमेकैकं परिपाट्या विचित्र लीलाविनोदैः स्वस्वराष्ट्रेषु तिष्ठन्तोऽन्यदा मिलिता एव ते ब्रह्मसविधमागताः, तेषां च तत्र तिष्ठतामन्येद्युर्ब्र - [ ० ९००० ]| नराधिपस्य समुदपादि मन्त्रमणिमूलिकाद्यसाध्यः शिरोरोगः, ततो व्याहृत्य कटकराजादिमित्राणि तदुत्सङ्गवर्त्तिनं विधाय ब्रह्मदत्तं बभाण ब्रह्मराजो यथा - भवदुत्सङ्गे मयाऽयं ब्रह्मदत्तः क्षिप्त इति कारयितव्यो राज्यमष
For Private & Personal Use Only
ww.jainelibrary.org