Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनव० बृह
वृत्तौ संलेखनायां
॥ ३२४ ॥
भवद्भिः, एवं कृतराज्यचिन्तो मरणपर्यवसानतया जीवलोकस्य गतः कदाचित्पञ्चत्वं कृतं तद्वयस्यैस्तस्य मृतकृत्यं गतेषु केषुचिद्दिनेषु पर्यालोचितं कटकराजादिभिः - यथैष ब्रह्मदत्तो यावदद्यापि राज्यधूर्धरण - धौरयेतां नात्मसात्करोति तावदस्माभिरेतद्राज्यं पालनीयम्, अतः सर्वसंमतेन दर्घि एवात्रास्तां, वयं तु स्वस्वराज्यान्यधितिष्ठामः, ततो गतेषु तेषु दीर्घराजः परिपालयितुमारेभे तद्राज्यम्, अवलोकयितुमारब्धो भाण्डागारं राजकायणि चिन्तयितुं प्रवृत्तः समं तदीयमात्रा चुलन्या, ततो दुर्वारतयेन्द्रियाणामवगण्य ब्रह्ममित्रत्वमवमन्य वचनीयं । चुलन्यैव सह संप्रलनो विषयसुखं सेवितुं गच्छत्सु च दिनेषु केषुचिद् ब्रह्मरजिद्वतीयहृदयमूतेन धनुराख्येन | | मन्त्रिणा विज्ञायैतद्वयतिकरं य एवमकार्यमाचरति स कथं ब्रह्मदत्तस्योदयमभिलषिष्यतीति चिन्तयता भणितो वरधनुर्निजपुत्रो, यथा - वत्स ! चुलनी तावदियं जाता दुश्चारिणी, तत् ज्ञापय रहसि ब्रह्मदत्तस्यामुमर्थ, ततस्तथाकृतेऽनेन कुमारो दुश्चरितमसहमानो मनसा तस्या अवबोधनिमित्तं काककोकिलासंग्रहणं गृहीत्वा - |ऽन्योऽपि य एवं करिष्यति तमहमित्थं निग्रहीष्यामीति वदन् मध्येऽन्तःपुरं प्रविष्टः, अन्यदिने च भद्रकरेणुकया सह | सङ्कीर्णगजमादाय तथैवागतः, ततो दीर्घराजः तच्छ्रुत्वा बभाण चुलनीं अहं त्वत्पुत्रेण काकः कल्पितस्त्वं तु कोकिलेति,
Jain Education International
For Private & Personal Use Only
pay
दोषे बालम
रणे संभूति
कथा.
॥ ३२४ ॥
www.jainelibrary.org

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710