Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तया मकरकेतुराजाज्ञायाः चटुलतया रमणीस्वभावानां समजन्यनुरागपरवशा सा तस्मिन्नेव, समं तेन प्रवृत्ता विषयसुखमुपभोक्तुं, विज्ञातश्चैष व्यतिकरो भूतदत्तेन, केवलं जायेतां सकलकलाकलापपारगौ मत्पुत्रौ तावत्पश्चाद् ज्ञास्याम्यहमेतदुचितमिति बुद्धया स्थितमज्ञवृत्त्या, कालान्तरे च कृते स्वपुत्राभ्यां सकलकलासङ्ग्रहे व्यवस्थितो भूतदत्तस्तं हन्तुं, विदितपित्राशयाभ्यां च चित्रसंभूतिभ्यामस्मदुपाध्यायोऽयमिति कृतज्ञतया विधाय रह
स्यभेदं त्रासितो गतो हस्तिनागपुरे सनत्कुमारचक्रवर्तिसमीपं, भवितव्यतानियोगेन प्राप्तस्तत्रामात्यत्वम् । इतश्च / Kal|चित्रसंभूती भूतातरूपयौवनादिगुणकलापौ मधुरगीतध्वनिना सकलमेव नगरीलोकं विशेषतस्तरुणरमणीसमूह-al
मानन्दयन्तौ बाणारसीनगर्यास्त्रिकचतुष्कचत्वरादिप्रदेशेषु यथेच्छं विलसितुमारेभाते, ततश्चतुर्वेदब्राह्मणैर्विज्ञप्तो । । राजा-देव ! मातङ्गभूतदत्ताजचित्रसंभूत्यद्भूतरूपयौवनादिगुणकलापगीताक्षिप्त एष सकलोऽपि नगरलोको न ।
गणयति स्पृश्यास्पृश्यविभागं, न लक्षयति स्वपरगुणदोषनिमित्तं, तहार्यतामनयोः पुरीमध्ये प्रवेशः, ततः प्रतिपन्ने तद्वचसि भूपालेन निवारितयोस्तयोः समाजगामान्यदा कौमुदीमहोत्सवः, तस्मिंश्च प्रच्छन्नस्थानवर्तिनी प्रवृत्तावेतौ लोकमहोत्सवं विलोकयितुं, दृष्ट्वा च गीतनृत्यादिव्यापार जनस्य ताभ्यामपि वस्त्राच्छादिः ||
Jain Education Intemel
For Private & Personel Use Only
Helljainelibrary.org

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710