Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 671
________________ शाण्डिल्यनाम्नो ब्राह्मणस्य यशोमत्यभिधानाया दास्या विनयादिगुणावर्जितेन तेनैव ब्राह्मणेन भार्यात्वे-|| | नाङ्गीकृताया गर्भे पुत्रयुगलत्वेनाजनिषातां, उचितसमयेऽतिक्रान्तबालभावौ च कदाचित क्षेत्ररक्षानिमित्तं गतावटवी, I||| तत्र न्यग्रोधपादपाधोवर्त्तिनोस्तयोरेस्तं गतः सहस्रकिरणः, स्थितौ तौ तत्रैव, क्षणमात्रेण च समागतनिद्रयोस्तत एव वटकोटरान्निर्गत्य दन्दशकेन दष्ट एकस्तयोः, दष्टो दष्ट इति वदन्नुत्थितो वेगेन, द्वितीयोऽपि तद्ध्वनिप्रतिबोधितः काकोदरनिरीक्षणार्थमितस्ततो हस्तक्षेपं कुर्वाणो दष्टस्तेनैवाहिना, विषवेगाकुलितचेतनौ च | पतितौ द्वावपि महीपृष्ठे, विनिस्सरबहललालाऽऽविलवदनबीभत्सौ च केनचिदविरचितप्रतीकारौ क्षणमात्रेण प्राप्तौ | परासुतां, समुत्पन्नौ च स्वकर्मपरिणतिरज्जुसंयुतौ हावपि कालिञ्जराभिधाननगवरे कस्याश्चिद्वनमृग्या मृगशावयुगलतया, समुपारूढप्रौढवयसोश्च क्रमेण पूर्वभवसहवाससमुपजातप्रीतिप्रकर्षयोः समं चरतोः समं निषीदतोः समं || शयानयोः समाजगाम कदाचिदुष्णकालः, तीव्रतृष्णोपतातापप्यमानौ च जलपिपासया समागतौ वेत्रवतीसरित, सर्वतस्तरलतारकमवलोकयन्तौ तस्याः सलिलमापीय समुत्तरन्तौ निविडवनगहनान्तरिततनुना लुब्धकेनैकेन । पुरातनवैरिणेव कर्णान्ताकृष्टचण्डकोदण्डदण्डोन्मुक्तैकबाणेन विद्धौ मर्मप्रदेशे, प्रहारवेदनाविधुरशरीरौ च परित्यक्तौ । JainEducation inta For Private Personal use only

Loading...

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710