Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वृत्ती
|
श्रीनवबृहः संलेखनायां ॥ ३२१॥
दृष्टान्तः
प्राणैः, आर्त्तवशेन भयोऽपि संजातौ मृतगङ्गान्हदोपकण्ठबासिन्यां एकस्यां हंसिकायां हंसयुग्मभावेन, तथैव यौवन- बालमरण
दोषे संभूति मनुप्राप्तौ तस्मिन्नेव महान्हदे क्रीडन्तौ विचित्रक्रीडाभिः अपरस्मिन्नहनि तथाविधभवितव्यताप्रेरितेन केनचित्पापकर्म-/ कारिणा शाकुनिकेन समागत्य झगित्येवैकपाशावपाशितौ गृहीत्वा कराभ्यां चलितकन्धरं व्यापादितौ सन्तौ काशीविषये | बाणारसीनगर्या महाधनसमृद्धस्य भूतदत्ताभिधानमातङ्गनायकस्याणहिकाभिधानभार्यायां बभूवतुर्यमलपुत्रत्वेन, रचित चित्रसंभूतिनामको चक्रमेण प्रवर्द्धमानशरीरौ तथैवातिप्रीतिसमन्वितौ संपन्नावष्टवार्षिकौ,तस्यां च नगर्यां तदाऽमितवाहनो। राजा, तेन कस्मिंश्चिन्महत्यपराधे संभावितो नमुचिनामा मन्त्री, तीव्ररोषतस्तस्यैव भूतदत्तचाण्डालस्य प्रच्छन्नं वधाय समर्पितः, ततः संजाते सकललोकलोचनबलापहारिणि बहलान्धकारे नीत्वा प्रच्छन्नपुदेशे एनं बभाण भूतदत्तस्तनयस्नेहेन, यथा-भोः ! भोः ! त्वद्वधायादिष्टोऽहं राज्ञा, केवलं यदि मदीयपुत्रको गुप्तभूमीगृहप्रविष्टो गीतादिकला अविकला ग्राहयसि तदा करोमि भवतोऽहं प्राणरक्षाम्, अन्यथा न ते जीवितमस्ति, ततो जीवितार्थिना प्रतिपन्नमनेन तद्वचः, समर्पितौ तनूजौ, प्रवृत्तौ ग्राहयितुं कलाः, अणहिका च मदङ्गजोपाध्यायोऽयमिति बहुमानेन स्नानभोजनादिशरीरस्थितिं नित्यमेव निवर्तयितुमारेभेऽस्य, गच्छत्सु केषुचिदिवसेषु दुर्दमतया हृषीकतुरङगमानां दुर्लङ्घ
॥३२१॥
Jain Education Intel
For Private & Personel Use Only
"www.jainelibrary.org

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710