________________
वृत्ती
|
श्रीनवबृहः संलेखनायां ॥ ३२१॥
दृष्टान्तः
प्राणैः, आर्त्तवशेन भयोऽपि संजातौ मृतगङ्गान्हदोपकण्ठबासिन्यां एकस्यां हंसिकायां हंसयुग्मभावेन, तथैव यौवन- बालमरण
दोषे संभूति मनुप्राप्तौ तस्मिन्नेव महान्हदे क्रीडन्तौ विचित्रक्रीडाभिः अपरस्मिन्नहनि तथाविधभवितव्यताप्रेरितेन केनचित्पापकर्म-/ कारिणा शाकुनिकेन समागत्य झगित्येवैकपाशावपाशितौ गृहीत्वा कराभ्यां चलितकन्धरं व्यापादितौ सन्तौ काशीविषये | बाणारसीनगर्या महाधनसमृद्धस्य भूतदत्ताभिधानमातङ्गनायकस्याणहिकाभिधानभार्यायां बभूवतुर्यमलपुत्रत्वेन, रचित चित्रसंभूतिनामको चक्रमेण प्रवर्द्धमानशरीरौ तथैवातिप्रीतिसमन्वितौ संपन्नावष्टवार्षिकौ,तस्यां च नगर्यां तदाऽमितवाहनो। राजा, तेन कस्मिंश्चिन्महत्यपराधे संभावितो नमुचिनामा मन्त्री, तीव्ररोषतस्तस्यैव भूतदत्तचाण्डालस्य प्रच्छन्नं वधाय समर्पितः, ततः संजाते सकललोकलोचनबलापहारिणि बहलान्धकारे नीत्वा प्रच्छन्नपुदेशे एनं बभाण भूतदत्तस्तनयस्नेहेन, यथा-भोः ! भोः ! त्वद्वधायादिष्टोऽहं राज्ञा, केवलं यदि मदीयपुत्रको गुप्तभूमीगृहप्रविष्टो गीतादिकला अविकला ग्राहयसि तदा करोमि भवतोऽहं प्राणरक्षाम्, अन्यथा न ते जीवितमस्ति, ततो जीवितार्थिना प्रतिपन्नमनेन तद्वचः, समर्पितौ तनूजौ, प्रवृत्तौ ग्राहयितुं कलाः, अणहिका च मदङ्गजोपाध्यायोऽयमिति बहुमानेन स्नानभोजनादिशरीरस्थितिं नित्यमेव निवर्तयितुमारेभेऽस्य, गच्छत्सु केषुचिदिवसेषु दुर्दमतया हृषीकतुरङगमानां दुर्लङ्घ
॥३२१॥
Jain Education Intel
For Private & Personel Use Only
"www.jainelibrary.org