SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ तया मकरकेतुराजाज्ञायाः चटुलतया रमणीस्वभावानां समजन्यनुरागपरवशा सा तस्मिन्नेव, समं तेन प्रवृत्ता विषयसुखमुपभोक्तुं, विज्ञातश्चैष व्यतिकरो भूतदत्तेन, केवलं जायेतां सकलकलाकलापपारगौ मत्पुत्रौ तावत्पश्चाद् ज्ञास्याम्यहमेतदुचितमिति बुद्धया स्थितमज्ञवृत्त्या, कालान्तरे च कृते स्वपुत्राभ्यां सकलकलासङ्ग्रहे व्यवस्थितो भूतदत्तस्तं हन्तुं, विदितपित्राशयाभ्यां च चित्रसंभूतिभ्यामस्मदुपाध्यायोऽयमिति कृतज्ञतया विधाय रह स्यभेदं त्रासितो गतो हस्तिनागपुरे सनत्कुमारचक्रवर्तिसमीपं, भवितव्यतानियोगेन प्राप्तस्तत्रामात्यत्वम् । इतश्च / Kal|चित्रसंभूती भूतातरूपयौवनादिगुणकलापौ मधुरगीतध्वनिना सकलमेव नगरीलोकं विशेषतस्तरुणरमणीसमूह-al मानन्दयन्तौ बाणारसीनगर्यास्त्रिकचतुष्कचत्वरादिप्रदेशेषु यथेच्छं विलसितुमारेभाते, ततश्चतुर्वेदब्राह्मणैर्विज्ञप्तो । । राजा-देव ! मातङ्गभूतदत्ताजचित्रसंभूत्यद्भूतरूपयौवनादिगुणकलापगीताक्षिप्त एष सकलोऽपि नगरलोको न । गणयति स्पृश्यास्पृश्यविभागं, न लक्षयति स्वपरगुणदोषनिमित्तं, तहार्यतामनयोः पुरीमध्ये प्रवेशः, ततः प्रतिपन्ने तद्वचसि भूपालेन निवारितयोस्तयोः समाजगामान्यदा कौमुदीमहोत्सवः, तस्मिंश्च प्रच्छन्नस्थानवर्तिनी प्रवृत्तावेतौ लोकमहोत्सवं विलोकयितुं, दृष्ट्वा च गीतनृत्यादिव्यापार जनस्य ताभ्यामपि वस्त्राच्छादिः || Jain Education Intemel For Private & Personel Use Only Helljainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy