________________
श्रीनव० वृह
दूतौ संलेखनायां ॥ ३२२ ॥
Jain Education Inter
तवदनाभ्यामेकस्मिन् प्रदेशे भूत्वा गातुमारब्धं श्रुतिसुखदमाकर्ण्य तदीयगीतध्वनिमुसृज्येतरप्रेक्षणकं तावे| वागत्य परिवारितौ प्रेक्षकलोकैः, अक्षेपाकृष्टचीवरप्रकटीभूतवदनौ च प्रत्यभिज्ञातौ हतहतेति ब्रुवाणैर्निष्काशितौ नगरीतः, ततो यदि कथञ्चिज्ज्ञास्यति तौ राजा तदा मदीयाऽऽज्ञा लङ्घितेति संजातकोपः प्राणेभ्यः पृथक्कारयिष्यत्यावामिति भयेन पलाय्य गतौ योजनमात्रं भूभागं, जातिदूषणोपजातगुरुनिर्वेदौ च कृतमरणाध्यवसायौ समारूढौ तुङ्गगिरिवरं तस्य चैकस्मिन् विमलशिलातले विकृष्टतपश्चरणशोषितशरीरः शुभध्यानपरायणः कायोत्सर्गव्यवस्थितो दृष्टिपथमवततार तयोर्महामुनिः, दृष्टमात्रेऽपि तस्मिन्नानन्दितौ मनसा, गतौ तत्सकाशं, वन्दितवन्तौ भावसारं, साधुना
ध्यानसमाप्तौ धर्मलाभाशीर्वादपूर्वं कुतो भवन्तौ समागतावित्याभाषितौ ततस्ताभ्यां स्ववृत्तान्तकथनपुरस्सरं निवेदिते निजकाभिप्राये महर्षिणोक्तं - भो ! भो ! विज्ञात हेयोपादेयपदार्थसार्थयोर्भवतोर्न युक्तमेवमध्यवसातुं, यदि च सत्यमेव निर्वेदस्तदा कुरुत युवां सकलशारीरमानसासातावन्ध्य कारणक्लिष्टकर्मवनदहन दावानलं जिनेन्द्र भाषितं साधुधर्म, ततो महाव्याधिपीडितातुराभ्यां सुवैद्यवचनमिवाङ्गीकृतं ताभ्यां तद्वचः, प्रतिपादितं च-भगवन् ! प्रयच्छा - वयोः सकलदुःखविमोक्षणीमात्मीयदीक्षां तेनापि तद्योग्यतामाकलय्य तयोर्दत्ता प्रव्रज्या, कालेन गीतार्थतायां
For Private & Personal Use Only
दोषे बालमरणे संभूति
कथा.
॥ ३२२ ॥
www.jainelibrary.org