Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लिकद्रव्यादीन्यनुभूय भवान्तरे मरणं न भवति तदन्त्यमरणं, 'वलायमरणं' ति भन्नव्रतपरिणतीनां व्रतिनां शुभाध्य. वसायतो वलयता व्याघुट्यमानानां मरणं वलन्मरणं, 'वसट्टमरणं च' त्ति दीपशिखावलोकनाकुलितपतङ्गस्येवेन्द्रिय. विषयवशातस्य मरणं वशार्त्तमरणं, अंतोसल्लं । ति मायानिदानमिथ्यादर्शनानि जीवस्य दुःखहेतुत्वाच्छल्यानीव शल्यानि तद्युक्तस्यानालोचिताप्रतिक्रान्तस्य मरणमन्तःशल्यमरणं, तदुक्तम्-" गारवपंकनिबुड्डा अइयारं जे परस्स न कहति । दसणनाणचरित्ते ससल्लमरणं भवे तेसिं ॥१॥" परस्येत्याचार्यादेः। " एयं ससल्लमरणं मरिऊण महब्भए तह दुरंते । सुइरं भमंति जीवा दीहं संसारकंतारं ॥१॥" 'तब्भवंति तद्भव एव मरणं तद्भवमरणं, विवक्षितभव एव मुक्तिगामिनां जीवानां यत्तदित्यर्थः, ते च गर्भजमनुष्याः सङ्ख्यातवर्षायुषः कर्मभूमिजा एव | केचिदिति, 'बालं' ति बालमरणमविरतसम्बन्धि, 'तह पंडियं । ति तथा पण्डितमरणं यत्सर्वविरतानां, 'मीसं ' ति| मिश्रमरणं देशविरतानां 'छउमत्थमरणं, ति छादयति-आवृणोति जीवस्य ज्ञानादिपरिणाममिति छद्म-घातिकर्म| तत्र तिष्ठन्ति ये ते छद्मस्थास्तेषां मरणं छद्मस्थमरणं, मत्यादिज्ञानिमरणमित्यर्थः, 'केवलि त्ति केवलं-संपूर्ण ज्ञानं क्षायिकं तद्विद्यते येषां ते केवलिनस्तेषां मरणं केवलिमरणं, 'वेहाणसं ' ति विहायो-नभस्तत्र भवं वैहायसं, यदुद्द
Jain Education Intel
For Private & Personel Use Only
IPMw.jainelibrary.org

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710