Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 659
________________ |पल्योपममात्रं चायः, तत्क्षये च वप्रावतीविजयवर्त्तिन्यां प्रभाराभिधानपुर्या वज्रजङ्घजीवः सुविधिनाम्नो वैद्यस्याङ्गजोऽभयघोषाभिधानोऽजनि, श्रीमतीजीवस्तुं श्रेष्ठितनयः केशवनामा संजातः, तत्रापि|| तथैवात्यन्तिकी स्नेहवृद्धिर्बभूव, तयोश्चान्येऽपि तस्मिन् भवे चत्वारो वयस्या राजाऽमात्यश्रेष्ठिसार्थवाहपुत्राला बभूवुः, ते च कदाचिदेकस्य कृमिकुष्ठदोषोपद्रुतस्य महामुनेः क्रियां कृत्वा तन्मूलपुण्योपार्जनेन पश्चिमवयोविरचित श्रामण्यानुभावेन च बहदेवायुषो मृत्वाऽच्युतकल्प इन्द्रसामानिकाः सुरा उत्पन्नाः, ततश्च्युतोऽभयघोषजीव । व इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्या वैरसेनराजस्य धारिणीदेव्या वजनाभनामा सूनुः संजातः, सच कालक्रमेण चक्री संपन्नः, इतरेऽपि वैरसेनस्य सनवः केशववर्जाः क्रमेण बाहसुबाहपीठमहापीठनामानो माण्डलिका राजानो जज्ञिरे, वैरसेनोऽपि प्रतिपन्नदीक्षो वज्रनाभस्य चक्रोत्पत्तिकाले केवलज्ञानमवाप्य धर्मतीर्थ । प्रवर्तितवान् , केशवजीवस्तु वज्रनाभचक्रिणः सारथिर्बभूव, केनापि कालेन सोऽपि समं तैश्चतुर्भिर्भ्रातृभिः सारथिना|| च भगवतो वैरसेनतीर्थकरस्य स्वपितुरन्तिके दीक्षा प्रपेदे, तेषां च मध्ये वज्रनाभश्चतुर्दशपूर्वधर इतरे चैकादशाङ्गविद आसन्, प्रभूतकालं च श्रामण्यं परिपाल्याराधितसमाधिमरणा उत्पेदिरे च सर्वेऽपि सर्वार्थसिद्धे महाविमाने Jain Education in For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710