Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीनव०गृह वृत्तौ अतिथिसंविभागे.
॥ ३१० ॥
मानसेन मौनस्थितेनैव प्रसारितः पाणिपुटः, पर्यस्तः श्रेयांसेन तत्रेक्षुरसः, स्वामिनस्त्वचिन्त्यतीर्थ करनामकर्मानुभावेन करपुटक्षिप्यमाणेक्षुरसस्य शिखैव ववृधे, न त्वधो बिन्दुरपि पपात तदुपयोगेन समाश्वस्तशरीरो बभूव संवत्सरानशनेापतप्तकायस्तीर्थकरो, न चालक्ष्यत केनाप्याहारयन्नसौ, यतो जन्मप्रभृत्येवैते गुणास्तर्थिकृतां यथादेहः प्रस्वेदामयविवर्जितो नीरजा सुरभिगन्धः । गोक्षीरसमं रुधिरं निर्विश्रसुधासितं मांसम् ॥ १ ॥ आहारो नीहारो लक्ष्यो नच मांसचक्षुषाऽमुष्यः । निःश्वासः कुलोत्पलसभानगन्धोऽतिरमणीयः ॥२॥ अस्मिंश्रावसरे हर्षभरनिर्भ|| रैगैगनवर्त्तिभिस्त्रिदशादिभिर्मुमुचे समं गन्धोदकेन पञ्चवर्णो वृन्तस्थायी कुसुमवर्षः, समाहताः सजलजलधरो||दारगर्जितानुकारिनिजध्वानवधिरितभुवनविवरा दुन्दुभयः, कृतः पवनविलुलितध्वजाञ्चलचञ्चलचेलोत्क्षेपः, निपातिताऽर्द्धत्रयोदश कोटी प्रमाणा स्वप्रभाजालप्रकाशितदिगन्तरा रत्नवृष्टिः, उद्घुष्टं जयजयारवोन्मिश्रमहो ! सुदानमहो सुदानमितिवचनम्, अवतीर्णाः श्रेयांसगृहाङ्गणमेव केचिद् घुसदः, संप्राप्तो विस्मितमना अन्योऽपि लोकः, | दृष्टवांश्च श्रेयांसं कथं भवता विज्ञातोऽयं पारमेश्वरः- पारणकविधिः ?, श्रेयांस उवाच - जातिस्मरणेन, जनो व्याजहारकीदृशमिदं जातिस्मरणं !, कथं चैतेन विदितोऽयं प्रकारः ?, तेनोक्तं-जातिस्मरणं तावन्मतिज्ञानविशेषः, अनेन च
Jain Education Interle
For Private & Personal Use Only
श्रेयांस कुमारचरित्रं
॥ ३१० ॥
www.jainelibrary.org

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710