Book Title: Nandanvan Kalpataru 2012 03 SrNo 28 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 8
________________ अथैकविंशत्यक्षरपादं प्रकृत्यां म्रग्धरावृत्तम् कैलासोद्दामकान्तिस्फुरदमलतलन्यस्तचित्रोपलाढ्ये भव्यस्तोत्रावलीसम्मुखरितककुभि स्वान्तपद्मार्करोचिः । नानालङ्कारहारिण्यघदलनकरी वीर ! मूर्त्तिस्त्वदीया प्रोद्यद्दीप्रप्रभाढ्यामलमणिनिकरैस्रग्धरा हन्तु पापम् ॥३४॥ अथ द्वाविंशत्यक्षरपादं कृत्यां मदिरावृत्तम् ये मदिरासुहिता मनुजा न भजन्ति तवाऽङ्घ्रिसरोजयुगं ते जिन ! निर्गतपुण्यभरा भयभारसुदुःखितमानसकाः । शश्वदशेषशरीरिविशारणकारणचिन्तननद्धहृदोनो गणयन्ति परोपकृतिं न विदन्ति गुणं न भजन्ति सुखम् ॥ ३५ ॥ अथ चतुर्विंशत्यक्षरचरणं संकृत्यां दुर्मिलवृत्तम् प्रणिधाय भवत्पदपङ्कजमीश ! जिनेन्द्र ! भवामयभेदकरं ससुरासुरमर्त्यनतं सततं परिदुम्मिलमोक्षसुखप्रददम् । लभते सकलः खलु सौख्यमनन्तमिहाऽपि परत्र च किं बहुना प्रणतः सकृदप्यमरैः पुरुषः सततं महितो भवति प्रणयात् ॥ ३६ ॥ ३२. लोकैश्छिन्ना त्रिकृत्वो मरभनयययैः सुन्दरा स्रग्धरेयम् ॥ अन्यत्राऽप्युक्तं कर्णं ताटङ्गयुक्तं वलयमपि सुवर्णं च मञ्जीरयुग्मं पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नूपुरद्वन्द्वयुक्ता । शङ्ख हारं दधाना सुललितरसना रूपवत्कुण्डलाभ्यां मुग्धा केषां न चित्तं तरलयति बलात् स्रग्धरा कामिनीव ॥ उट्टवणिका यथा sss sis - 5 || || ss Iss iss ३३. सप्तभकारयुता सगुरुर्गदितेयमुदारतरा मदिरा ॥ उट्टवणिका यथा - 5 || 5 ॥ 5॥ 5॥5॥5॥5॥ s ३४. सगणौ सगणी सगणौ सगणौ यदि दुम्मिलमेतदवेहि तदा ॥ अन्यत्राऽप्युक्तम् विनिधाय करं गुरुरत्नमनोहरबाहुयुगं कुरु रत्नधरं सगणं च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम् । इति दुम्मिलका फणिनायक संरचिता किल वर्णविलासपरा चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ॥ उट्टवणिका यथा ॥15 ॥ ॥ ॥ ॥ ॥s is us ८Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 86