Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 60
________________ कथा गिटार-वाद्यस्य प्रथमो ध्वनि: मुनिकल्याणकीर्तिविजयः 'यो दद्यात् तस्याऽपि शुभं भवतु, यो न दद्यात् तस्याऽपि च' - इत्युच्चैरारटन् कश्चन भिक्षुको यावद् गतवान् तावताऽन्यौ दम्पती 'भो ! अस्मान् शृणुत, स युष्माकं श्रोष्यति......' इत्यतीव कर्कशस्वरेण गायन्तौ समागतौ । ततो जलपुटकविक्रेता, वटकविक्रेता, प्रसाधनसामग्रीविक्रेत्री...... इत्येवं बहवो गतागतं कुर्वाणाः सर्वतो भृतस्य रेलयान-प्रकोष्ठस्य सम्म वृद्धिं कुर्वन्ति स्म । एकतो वैशाखमासस्याऽरुन्तदो धर्मः, तत्र च श्वासग्रहणेऽपि बाधको जनसम्मर्दः, तत्राऽपि जनानां प्रस्वेदस्य तीव्रो गन्धः - सर्वमप्येतन्मिलित्वा यद् वातावरणं समुदपादयत् तत् सर्वथाऽसह्यमासीत् । सारङ्गोऽपि तत्रैव प्रकोष्ठे आसीत् । एतावति जनसम्म सोऽद्यैव क्रीतं गिटार-वाद्यं गृहीत्वा यदा प्रकोष्ठे प्रविष्टस्तदाऽऽपातमात्रेण तस्य चिन्ता जाता यत् - कथमिदं वाद्यं जनसम्म रक्षिष्यामि? किन्तु द्वित्रस्थानकातिक्रमणानन्तरं तस्यैकत्रोपवेष्टमवकाशः प्राप्त एव । सोऽद्यावधि स्कन्धे लम्बमानं गिटारवाद्यं स्वोत्सङ्गे निधाय विश्रान्तिमनुभवन्नुपविष्टः । _ 'इमे भिक्षुकहतकाः, यदा पश्यामस्तदा याचमाना भवन्त्येव' - तदासन्ने स्थितेनैकेन जनेन सामर्षं गदितम् । स-रसवार्तालापस्य मङ्गलं तेन सहसा कृतमिति तदनुमोदनाथ बहवो जनास्तत्पूर्त्यर्थं लग्नाः । 'सत्यमुक्तं भवता । सश्रमं किमपि कार्यं न कृत्वा यद्येवमेव धनं प्राप्येत तदा तु वरमेव !!' - इत्येकेनोक्तम् । 'न जाने कुत्र गत्वेयतो धनस्योपयोगमेते करिष्यन्ति ?' – अन्यः सनिःश्वासं कथितवान् । 'एतावति सम्मर्देऽस्माकं पादमेकं स्थापयितुमपि स्थानं नास्ति तदैते तु साटोपं गानं गायन्तः ससुखं कथं भ्राम्यन्ति - इत्येव मे महत् कुतूहलम्' - इत्यपरः कश्चन सस्मितमवदत् । अथैतावन्तं कालं तूष्णीं स्थितोऽन्यः कश्चनाऽपि स्वज्ञानं प्रादर्शयत् - 'भोः ! सज्जनाः ! एतेषु बहवो ग्रन्थिच्छेदका अपि भवन्ति। यदि जनसम्मर्दोऽधिको भवेत् तदैतेषां कार्यं सुकरं भवेत् खलु !!' ६०

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86