Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ विचारणम् सम्भाषणसन्देशस्य २०११ तमवर्षस्य डिसेम्बर्-मासीयायां सञ्चिकायां प्रकाशितस्य अद्य धारा निराधारा... निरालम्बा सरस्वती.... इति लेखस्य प्रमुखोंऽशः -उदयनः 'अद्य धारा निराधारा निरालम्बा सरस्वती' इति इयं पङ्क्तिः प्रायः संस्कृतवाङ्मयस्य अध्येतृणां सर्वेषामपि नितरां परिचितपूर्वा स्यादेव । यद्यपि बल्लालकृते: भोजप्रबन्धस्य इयं पङ्क्तिः तत्कालीना (भोजराजस्य अयं चरमश्लोकः कालिदासेन इत्थं गीतः इति उल्लेखपूर्वकं तस्मिन् ग्रन्थे उपलभ्यमाना) तथापि कालेऽस्मिन् नितराम् अन्वर्थतां भजते । यस्मिन् भारतवर्षे विद्यारम्भकाले - 'सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥' इति अधुनातनकालेऽपि गीयते तस्यैव भारतवर्षस्य मध्यभागे स्थितस्य, विद्याधिदेवतायाः सरस्वत्याः मन्दिरस्य करुणापूर्णा गाथा इयम् ! प्रबन्धचिन्तामणिः इति जैनकृतिः वदति - 'परमारवंशीयः राजा भोजः देव्याः सरस्वत्याः उपासनार्थम् १०३४ तमे क्रिस्ताब्दे अधुनातने मध्यप्रदेशराज्ये विद्यमाने धारानगरे (धार इति एतत्कालीनं नाम) भोजशाला निर्मापितवान्' इति । भारतीयाध्यात्मिकतायाः संस्कृतभाषायाश्च अध्ययनकेन्द्रत्वेन प्रथिता इयं भोजशाला सवसतिकः विश्वविद्यालयः एव आसीत् । चतुर्दशशताधिकाः कवयः विद्वांसः तत्त्वज्ञाश्च इमां भोजशालाम् आश्रितवन्तः आसन् इति श्रूयते । किन्तु किं जातं ततः? द्वादशे शतके चालुक्यवंशीयाः सोलङ्किवंशीयाश्च राजानः धारानगरं वशीकृत्य तं सरस्वतीविग्रहम् अपहृत्य गुजरातराज्यं प्रति नीत्वा १२७१ तमे वर्षे कञ्चन देवालयं निर्माय तत्र प्रतिष्ठापितवन्तः । एतावता न कापि महती हानिः जाता । ततः यवनानाम् आक्रमणम् आरब्धम् । यवनाः तत्रत्यं ग्रन्थभाण्डारं समग्रमपि नाशितवन्तः । देहलीराजानां वशं गता अभवत् भोजशाला । तादृशेषु नाशयितृषु प्रमुखः आसीत् अल्लावुद्दीनखिल्जी। (शासनकाल: - १३०५ तमः क्रिस्ताब्दः) ततः पश्चात् तत्र किञ्चन यवनानां प्रार्थनामन्दिरं निर्मितम् अभवत् । अद्यापि अयं प्रदेशः यवनप्रार्थनामन्दिरत्वेनैव सर्वत्र निर्दिश्यते । एवम् अतिमहत्त्वं वहन् अयं सरस्वतीविग्रहः अधुना कुत्र वर्तते इति पृष्टे अति उत्तरं तु - ब्रिटिश् म्यूसियम् इत्यत्र इति !! अस्माकं दीर्घकालीनं दास्यं स्मारयन् अयं विग्रहः वर्तते लण्डन्नगरे !!! अन्ताराष्ट्रियस्तरे ख्यातः इतिहासतज्ज्ञः भूगर्भशास्त्रज्ञश्च डा० विष्णुश्रीधरवाकणकरवर्यः १९६१ तमे वर्षे लण्डन्नगरं गत्वा तत्रत्यस्य सरस्वतीविग्रहस्य विषये अध्ययनं कृतवान् । तस्य विग्रहस्य प्रत्यानयनाय तेन प्रयत्नः अपि विहितः । एतत्सम्बद्धतया सः प्रधानमन्त्रिणं नेहरूवर्य, १९७७ तमे वर्षे इन्दिरागान्धिवर्यां च सन्दृष्टवान् । किन्तु तेन न किमपि फलं सिद्धम् । एषु दिनेषु तन्नाम सप्टम्बर्मासस्य २५ तमे दिनाङ्के जनतापक्षस्य अध्यक्षः सुब्रह्मण्यस्वामिवर्यः भोजशालां प्रति सन्दर्शनाय गतः आसीत् । स्वयं सर्वमपि प्रत्यक्षं दृष्ट्वा तेन लण्डन्नगरस्य न्यायालये अस्य सरस्वतीविग्रहस्य प्रत्यानयनाय अभियोगः कृतः वर्तते । किं ब्रिटिश्सर्वकारः एनं विग्रहं प्रतिदद्यात् ? तत्रत्याः भक्ताः तु सरस्वत्याः मूलविग्रहस्य प्रत्यागमनमेव प्रतीक्षमाणाः पूजादिकं निवर्तयन्तः वर्तन्ते । प्रतिशुक्रवासरं यवनाः तत्र प्रार्थनां कुर्वन्ति । प्रतिमङ्गलवासरं हिन्दवः पूजां कुर्वन्ति । अवशिष्टेषु दिनेषु कस्यापि प्रवेश: नास्ति तत्र । यदि सुब्रह्मण्यस्वामिवर्यस्य अभियोगः फलप्रदः स्यात्, तहि विदेशे विद्यमानाः सर्वेऽपि भारतमूलाः विग्रहाः अवश्यं प्रत्यागच्छेयुः । मुख्यमन्त्रिणि शिवराजे शासति – 'अद्य धारा सदाधारा सदालम्बा सरस्वती' इति कालिदासस्य श्लोकपङ्क्तिः किम् अन्वर्थतां प्राप्नुयात् इत्यस्य तु कालः एव उत्तरं दातुं प्रभवेत् । ७०

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86