Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सुधीरोऽश्वचालनं कुर्वन्नेकदा कञ्चिदवरोधं प्राप्याऽश्वपृष्ठादधः पतितः पादस्याऽस्थि च तस्य भग्नम् । अश्वेनैतद् विलोक्य वस्त्रद्वारा स्वमुखेन स उत्थाप्य पुनरपि स्वपृष्ठोपरि स्थापितो, गृहं प्रापितस्तदर्थं च चिकित्सकोऽपि समाहूतः ।
'अतीव चतुरोऽयमश्वो भोः !' तन्मित्राणि प्रशंसितवन्तः । 'न तथा चतुरः । मूर्योऽयं पशुचिकित्सकमाहूयाऽऽयातः !!' सुधीरः कोपेनोक्तवान् ।
दीर्घप्रवासं गन्तुमुत्सुकः कश्चन प्रवासी कदाचित् स्वनगरे स्थितं चीनदेशीयं वणिजमेकं पृष्टवान्
- 'किं चीनदेशे उत्तमाश्चिकित्सकाः सन्ति न वा ?' वणिक् 'आम् ! सुतरां सन्ति श्रेष्ठाश्चिकित्सकाश्चीनदेशे। तेषामपि हेन्ग-चेन्ग-चिकित्सकस्तु
सर्वोत्तमः । प्रवासी 'कथमिव !!' वणिक् 'एकदाऽहं रुग्णोऽभवम् । ततो मया हेन्ग-किन्नाम्न-श्चिकित्सकस्य सकाशात्
रोगशान्त्यर्थमौषधं गृहीतम् । किन्तु, तेनाऽहमधिकतरं रुग्णो जातः । ततो मयाऽन्यस्मात् सेन्-सिन्ग नामकाच्चिकित्सकादौषधं गृहीतम् । तदपि मां ततोऽप्यधिकतया रुग्णीकृतवत् । मया चिन्तितं 'मेऽन्तसमयः समागत' इति । अतो मया सर्वोत्तमश्चिकित्सको हेन्ग-चेन्ग् इति मम गृह एव समाहूतो मत्परीक्षणार्थम् । किन्तु, स कुत्रचिदन्यत्र चिकित्सार्थं गतवानासीदत आगन्तुं नैव शक्तोऽभवत् । ततश्च- - - - मम प्राणा रक्षिता अभवन् !!'
(आपणे क्रयणार्थं गतः कश्चन जनो गणनं कुर्वन्तमापणिकं पादेन प्रहृतवान्)
ततः - जनः क्षम्यतां भोः ! ममैतद् व्यसनं मानसिकास्वस्थताकारणादस्ति । आपणिकः यदि भवतः स्थानेऽहं स्यां तदाऽवश्यं मानसचिकित्सकादुपचारं कारयेयम् । (मासानन्तरं स जनः पुनरपि तत्रैवाऽऽपणे समागतः । तदानीं च न किञ्चिदपि जातम् ।) अतः - आपणिकः मन्ये भवान् स्वस्थीभूतोऽस्ति । किं भवता मानसचिकित्सकस्य सम्पर्कः कृतो वा? जनः अवश्यं कृतः । आपणिकः कथं तेन भवदुपचारः कृतः? जनः यदाऽहं तं पादेन प्रहृतवांस्तदा सोऽपि मां पादेनोच्चैः प्रतिप्रहृतवान् !!
७३

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86