Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सम्भाषणसन्देशस्य डिसेम्बर्-मासस्य सञ्चिकायाम् उदयनमहोदयेन लिखितम्"अद्य धारा निराधारा निरालम्बा सरस्वती...."
इति लेखमधिकृत्य किञ्चित् -
लेखस्य तृतीये वाक्यपरिच्छेदे(paragraph) लेखकेन लिखितमस्ति यद् - "द्वादशे शतके चालुक्यवंशीयाः (त एव सोलङ्किवंशीयाः कथ्यन्ते) राजानो धारानगरं वशीकृत्य तं सरस्वतीविग्रहमपहृत्य गुजरातराज्यं प्रति नीत्वा १२७१ तमे वर्षे कञ्चन देवालयं निर्माय तत्र प्रतिष्ठापितवन्तः" इति ।
__ अत्र हि लेखकेन इतिहासात् किञ्चिदन्यथा सम्भावितमस्ति । गूर्जरदेशीयाः चालुक्या राजानो (मुख्यतया सिद्धराजजयसिंहः) यद्यपि धारानगरं समाक्रम्य वशीकृतवन्तो भोजशालास्थितं सरस्वतीमन्दिरं (नाम ग्रन्थभाण्डागारं, न तु सरस्वतीदेव्या देवालयं कञ्चन) चाऽपि स्वायत्तीकृत्य तत्रस्थितं विविधशास्त्र-साहित्यग्रन्थनिचयं गूर्जरदेशं प्रति समानीतवन्तः । किन्तु सरस्वतीविग्रहं तु नैव कञ्चन समानीतवन्तः (यत ईदृश उल्लेखो न कुत्राऽपीतिहासग्रन्थेषु प्राप्यते ।)
किञ्च, योऽयं सरस्वतीविग्रहो लण्डन्नगरे ब्रिटिशम्यूझियम-(सङ्ग्रहालयः)इत्यत्र वर्तते, यस्य च छायाचित्रं लेखे प्रदत्तमस्ति स विग्रहोऽस्ति मर्मरपाषाण(Marble)निर्मितः । शिल्पकलामर्मज्ञानामितिहासविदां च मतानुसारं मर्मरपाषाणनिर्मितानि शिल्पानि किल विक्रमस्य दशमशतकस्याऽनन्तरमेव घटितानि सन्ति, न ततोऽपि प्राक् । तान्यपि च शिल्पानि प्रारम्भे वर्षशतकालं यावत् प्रायो राजस्थान-गूर्जरदेशेष्वेव विरचितानि, तदनन्तरमेवाऽन्यत्र मर्मरपाषाणप्रसिद्धिर्जाता ततश्च शिल्पघटनमारब्धम् । अनेन कारणेनैष विग्रहो भोजशालासत्को नैव सम्भवति ।
अपरं च, अयं छायाचित्रस्थः सरस्वतीविग्रहो हि मूलतयैव कस्यचन जैनदेवालयस्याऽङ्गभूतो विग्रहोऽस्ति । सध्यानं यदि विलोक्येत तदाऽस्मिन् शिल्पे विराजमानाः पञ्च जैनतीर्थकराणां प्रतिमाः सन्तीति साक्षाज्ज्ञायते । ततश्च निश्चप्रचमेषाऽस्ति जैनसरस्वतीप्रतिमा । अनेनाऽपि कारणेनाऽयं सरस्वतीविग्रहो भोजशालासत्को नैव सम्भवति, भोजराजस्य परमशैवत्वात् । स हि न कदाचिदपि जैनप्रतिमायुतं सरस्वतीविग्रहं कारयेत् समर्चयेद् वा । अतोऽयं विग्रहोऽवश्यं राजस्थानस्थितस्य कस्यचन जैनमन्दिरस्यैवाऽङ्गभूतोऽस्ति । तस्य शिल्पशैल्यपि प्रायो वैक्रमीयद्वादशशतकस्य राजस्थानस्य शिल्पकलामनुसरति इति प्रतिभाति ।
अथ च यवनानामाक्रमणकाले भञ्जित एष विग्रह प्रायः शताधिकवर्षेभ्यः पूर्वं केनचित् विदेशीयपर्यटकेनाऽपहृत्य कथमपि स्वदेशं नीतस्ततश्च क्रमशो ब्रिटिश-सङ्ग्रहालयं प्राप्तः स्यात् ।
अतोऽस्मद्देशीय एवाऽयं सरस्वतीविग्रहो वर्तते । तस्य च प्रतिप्रापणार्थं सर्वात्मना प्रयतितव्यमेवाऽस्माभिः । केवलमैतिहासिकदृष्ट्या भोजराजनिर्मापितभोजशालासत्को नास्त्ययं विग्रह इति मनस्यवधारयितव्यम् ।
मुनिकल्याणकीर्तिविजयः
* दृश्यतां मुखपृष्ठम् ।
७१

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86