Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
राज्ञी अभयदेवी अन्येभ्यो राज्येभ्यो दूतान् प्रेष्य नरपतीनब्रवीत् । “विदेशाद् वाणिज्यव्याजेनाऽत्राऽऽगताः क्रमेण विविधस्तन्त्रैर्देशं वशीकर्तुं प्रयतन्ते । इदानीमुल्लाळं वशीकर्तुं ते ससैन्या आगच्छन्ति । श्वः परश्वो वा भवतां राज्येष्वपि एषा स्थितिः प्रादुर्भविष्यति । अतो भवद्भिः सम्प्रति उल्लाळराज्यस्य साहाय्यं कर्तव्यम् । शत्रुरङ्करदशायामेव निर्मूलनीयः । स यदि प्ररोहिष्यति, तर्हि नाऽस्माकं मध्ये कोऽपि तमुच्छेत्तुं शक्ष्यति । प्रतीकार इदानीमेव कर्तव्यः" इति । एवं सा प्रजास्वपि देशभक्तिमुदबोधयत् । देशे सर्वत्र कीर्तनकाराः परकीयाक्रमणस्य दोषानवर्णयन् । व्यायामशालासु वीराणां गाथाः श्राविताः । आबालगोपालं सर्वे शत्रून् विरुध्य योद्धं सिद्धा अभवन् । राज्ञां प्रतिक्रिया समाना नाऽऽसीत् । केचन पोर्तुगीसेभ्यो बिभ्यति स्म । अन्ये तु उल्लाळराज्यस्य प्राबल्यं नाऽकामयन्त । परविनाशं दृष्ट्वा सन्तुष्यन्तो नीचा अपि केचिदासन् ।
केचन राष्ट्रभक्त्या जागृताः सेनासाहाय्यं प्रायच्छन् । केचन तटस्थाः स्थित्वा स्वस्वराज्येषु रक्षोपायानन्वतिष्ठन् । मासद्वयानन्तरं पोर्तुगीसा नौकाभिः समुद्रमार्गेणाऽऽगत्य उल्लाळराज्यस्योपरि आक्रमणमकुर्वन् । उल्लाळसेना सिद्धाऽऽसीत् । शत्रूणां नौकाः समुद्रे मज्जिताः शत्रुसैनिकाः केचन हताः । बहवो बद्धाः । उल्लाळसैनिकाश्च केचन हुतात्मानोऽभवन् । शत्रूणां तन्त्रं विफलमभवत् ।
पुनस्त्रिमासावधेरूज़ पोर्तुगीसाः सह बलवत्तरया सेनयाऽऽगताः । उल्लाळराजमेव पुरतः स्थापयित्वा पोर्तुगीसा आक्रमणमकुर्वन् । स देशद्रोही "शरणागता भवत । एते श्वेता अस्मानुद्धर्तुमागताः। तेषां धर्मो महान् । तेषां विद्या महती । अतस्तदनुसरणमेवाऽस्माकं क्षेमङ्करम्" इति योधानब्रवीत् । स्वयमश्वारूढा खड्गधारिणी दुर्गेव विजृम्भमाणा अभयदेवी स्वयोधानुत्तेजयन्ती अब्रवीत् "स्वातन्त्र्यं स्वर्गः । पारतन्त्र्यं नरकः । स्वधर्मे निधनं श्रेयः । क्षत्रियवद् देशप्रेम्णा युध्यध्वम् । भारतभूमिं पादाक्रान्तां कर्तुमागतान् शत्रून् निर्दयं मारयत । देशद्रोहिणं परलोकं प्रेषयत" इति ।
उल्लाळराज्यस्य शूराणां वीराणां खड्गाघातं सोढुमशक्ता शत्रुसेना नाशमुपगता । द्रोही राजा पृष्ठं दर्शयित्वा पलायनं कुर्वाणः सायकेनाऽऽहतो भूमौ पतितः । पोर्तुगीसास्तं विहाय पलायन्त ।
राज्ञी अभयदेवी साश्रुनयना तं दृष्ट्वा कृपयाऽऽविष्टा तस्य प्राणान् रक्षितुं प्रायतत । वैद्या औषधानि प्रायुञ्जत । किन्तु चिकित्सा सफला नाऽभवत् ।
"मम महापापस्य फलं मयाऽनुभूतम्" इत्युक्त्वा राजा प्राणानत्यजत् । तस्य संस्कारः कृतः । देशरक्षिणीं राजी सर्वेऽभ्यनन्दन् ।
"राज्ञी जयतु, अभयदेवी जयतु" इति योधा घोषयन्ति स्म । शोकाकुलाऽपि सा कर्तव्यं निर्वहन्ती शत्रून् देशाद् बहिर्धावयित्वा पत्युः परलोकसंस्कारान् कारयित्वा प्रजा धर्मेण पर्यपालयत् । स्वातन्त्र्यवीरा अभयदेवी सर्वेषामस्माकं स्फूर्तिदायिनी भवतु ।
90 9th Cross, Naviluraste Kuvempunagar,
MYSORE 570023
६९

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86