Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
"रजतं दास्यामि, सुवर्णं दास्यामि, तवाऽभिमतं सर्वं दास्यामि । मह्यं पुनस्तदेव मद्यं देहि" इति राजा पोर्तुगीसप्रतिनिधिमयाचत ।
"राजन्, भवान् स्वराज्यं त्यक्त्वाऽस्माकं केन्द्रप्रदेशमागच्छतु । तत्र यथेच्छमिदं मद्यं पिबतु । अस्मद्देशादागताः श्वेतसुन्दर्यः सन्ति । ताभिः सह भवान् क्रीडतु । यौवनस्य पूर्णं सुखमनुभवतु" इति प्रतिनिधिः प्रालोभयद् राजानम् । राजा तथाऽस्तु इति प्रभूतेन स्वर्णराशिना सह पोर्तुगीसानां केन्द्रप्रदेशमगच्छत् । गोमान्तकाख्ये स्थले न्यवसत् ।
एतत् सर्वं मन्त्रिभिरभयदेव्यै निवेदितम् । राज्ञी अशोचत्, पत्येऽकुप्यत्, अरोदीच्च । अन्ते सा मोहान्धकाराद् बहिरागता मनो दृढीकृत्याऽब्रवीत् "बन्धुरपि पुत्रोऽपि पतिरपि देशद्रोही त्याज्य एव । अहं तं द्रोहिणं त्यजामि । अद्यैव, अस्मिन् क्षण एव उल्लाळराज्यस्य सार्वभौमत्वं सर्वाधिकारं चाऽहमेव वहामि। राज्ये घोषणा क्रियताम् । अभयदेवी न्यायेन प्रजाः शासिष्यति । धर्मेण सर्वान् पालयिष्यति । तस्या एवाऽऽज्ञा सर्वैरनुसरणीया । राज्ञया आज्ञा यो धिक्करोति, तस्य तीव्रा दण्डना भविष्यतीति" ।
अभयदेव्या वचनं सर्वैर्मन्त्रिभिः सेनानीभिश्चाऽभिनन्दितम् । तथैव घोषणा सर्वत्र राज्ये कृता । प्रजाः सन्तुष्टाः । सर्वेषु जनेषु नूतन उत्साह आगतः, उल्लास उद्भूतः ।
पोर्तुगीसकेन्द्रे वैदेशिका राजानं मद्यं पाययित्वा "उल्लाळराज्यशासनमस्मभ्यं समर्प्यताम् । भवान् सुखसागरे मज्जतु । इन्द्र इवाऽप्सरसां नृत्यं पश्यतु" इत्यब्रुवन् । तथाऽस्तु इति राज्ञोक्तम् । तेन तथैव पत्रं लेखयित्वा उल्लाळराज्यं वशीकर्ता पोर्तुगीसप्रतिनिधिरागतः । किन्तु तेन दृष्टं यद् राज्ञी सिंहासनारोहणं कृतवती, तस्याः शासनं तत्र प्रवर्तत इति । आस्थानमण्डपे विराजमानायै अभयदेव्यै पत्रं दत्त्वा सोऽब्रवीत् "उल्लाळराज्यस्य राज्ञा देशोऽस्मभ्यं समर्पितः । शासनाधिकारो मह्यं दीयताम् । राज्ञी राजसौधे वसतु । सकलं च वैभवमनुभवतु । तत्र मम विरोधो नास्ति । किन्तु अहं राज्यं शास्मि । अस्य देशस्य व्यवहारा मदिच्छानुसारेण प्रवतिष्यन्ते" इति ।
राज्ञी पत्रं खण्डशश्छित्त्वा प्रतिनिधेर्मुखेऽक्षिपत् । कोपेनोच्चैस्सा जगदेव कम्पयन्ती अवोचत् "स पूर्वो राजा देशद्रोहीति घोषितः । तस्य वचनं निरर्थकम् । तस्य पत्रं तृणायाऽपि न मन्यते । यदि गृह्यते सोऽपराधीव दण्ड्यते । सम्प्रति मम शासनमत्र प्रवर्तते । त्वां सजीवं मुञ्चामि । गत्वा तत्र ब्रूहि । यदि स द्रोही वा कोऽपि पोर्तुगीसो वा उल्लाळभूमौ पदं निधास्यति, तर्हि मृत्युदण्डो दास्यते । द्रोहिभ्यो देशेऽस्मिन् क्षमा न दीयते । गच्छेदानीम्" इति ।
कोपेन राज्याः अभयदेव्या मुखं लोहितं जातम् । “प्रतिनिधिपाशमेनं बद्ध्वा अस्मद्राज्याद् बहिः क्षिपत" इति योधान् साऽऽदिशत् । तैस्तथैव कृतम् । स महता प्रयासेन स्वप्रदेशमगच्छत् ।
तत्क्षण एवाऽभयदेवी युद्धसिद्धतामारभत । सर्वाण्यायुधानि सज्जीकृतानि । सर्वे योधाः प्रशिक्षणमारभन्त । न केवलं पुरुषा अपि तु स्त्रियोऽप्यायुधानां खड्गादीनां प्रयोगे शिक्षणमलभन्त । राज्यस्य सीमासु प्रहरिणां चलनं प्रवतितम् । परीक्षां विना न कोऽपि उल्लाळराज्यं प्रवेष्टं शक्तोऽभवत् ।
६८

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86