Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
अभयदेवी
एच्. वि. नागराजराव्
पश्चिमसमुद्रतीरे विराजते उल्लाळराज्यम् । समुद्रराजस्य रवस्तत्र सदा श्रूयते । उर्वरा भूः प्रजानां सर्वान् कामान् पूरयति ।
राजा प्रत्यक्षदेवता इति उल्लाळराज्यस्य प्रजाः प्रविश्वसन्ति स्म । प्रजानां हितमेव स साधयिष्यतीति प्रजानां दृढा श्रद्धा । किन्तु राजा सुखलोलुपोऽभवत् । सदा स मद्यं पीत्वा गाननृत्यदर्शनेन कालं नयति स्म । प्रजानां कष्टानि परिहर्तुं चिन्तामपि नाऽकरोत् । उल्लाळराज्ये मरिचलवङ्गलादीनामुत्पत्तिरधिका । तां क्रेतुं विदेशेभ्योऽपि वणिज आगच्छन्ति स्म । राज्यस्य कोशे सम्पद्राशिरभवत् । किन्तु सम्प्रति राजा तस्याः सम्पदोऽपव्ययमकरोत् । वणिजां रक्षायामपि स औदासीन्यमभजत ।
___एतस्मिन् सन्दर्भे पोर्तुगीसा: पवित्रायां भारतभूमौ पदं न्यधुः । वाणिज्यार्थमागता: पश्चिमतीरस्य कांश्चन प्रदेशान् वशीकृत्य स्वशासनं प्रावर्तयन् । उल्लाळराज्यस्य राजा विषयासक्तः । तं वशयितुं तद्राज्यं कवलयितुं चाऽवकाशोऽस्तीति पोर्तुगीसा अजानन् । शीघ्रं तत्र प्रवृत्ताश्च ।
उल्लाळराज्यस्य मन्त्रिणश्चिन्ताक्रान्ता अभवन् । यदि कश्चिदन्यो देशक्षेमविरुद्ध कार्यमकरिष्यत्, तहि तं ते दण्डयितुं शक्ता अभविष्यन् । किन्तु राजा एव यदा द्रोहं कर्तुं व्यवस्यति, तदा मन्त्रिणः किं कर्तुं शक्नुवन्ति ? तथाऽपि प्रधानमन्त्री अन्यैर्मन्त्रिभिः साकं समालोच्य राज्ञीमभयदेवीमेव प्रार्थयितुं निश्चयमकरोत् । तस्यै समस्तां वार्ता निवेद्य "राज्ञि, भवती एव राज्यं रक्षेत् । अमार्गात् तव भर्तारं राजानं मार्गे प्रवर्तयेत्" इति प्रार्थयत । "प्रयतिष्ये' इति राज्ञी अवदत् ।
प्रीत्या, अनुनयेन, उदाहरणवर्णनेन, अर्थशास्त्ररहस्योपदेशेन च राजानं सन्मार्गे आनेतुं राज्या अभयदेव्या सर्वे प्रयत्नाः कृताः । राजा सर्वमशृणोत् । किन्तु मद्यपानदासस्य तस्य दौर्बल्यं न गतम् ।
पोर्तुगीसानां प्रतिनिधिस्तु राज्ञे स्वदेशादानीतं मद्यं दत्तवान् । तत्पानानन्तरं राजा क्षणे क्षणे तत्पातुमैच्छत् । राज्यं, प्रजाः, धर्मपत्नी, पुत्री इति सर्वं तेन विस्मृतम् । मद्यं लब्धुकामः स्वाभिमानमत्यजत् । तस्माल्लज्जा दूरीभूता। अहनिशं मद्यपानमत्त एव कालमनयत् । राज्ञो दौर्बल्यं पोर्तुगीसप्रतिनिधिरवर्धयत् । मद्यं विना क्षणमेकमपि स्थातुं राजा नाऽशक्नोत् ।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86