Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ मन्त्री वृद्धायाः समीपं गतवान्, तत्र च गत्वा राजसन्देशमदात् । प्रत्युत्तरेऽनुभववृद्धा सा वयोवृद्धा नवयुवतिवद् महारवेणाऽवोचत् – “नहि, किं वदथ यूयम् ? एतादृशं तु कदाचिदपि न भविष्यति, स नृपतिस्स्यात्तर्हि किं जातम् ? राजा महालयं सुखेन बध्नातु, किन्त्वहमुटजं नैव त्यक्ष्यामि ।" प्रधानो नम्रवचसा जल्पितवान् – “मातः ! राज्ञ आदेशस्याऽवमूलनं न स्यात् ।" मनागावेशेन सह वृद्धाऽगृणात् – “अलं तादृगादेशेन । अहं त्वतः किमपि स्थानं न गमिष्यामि। एतत् स्थानं कदाऽपि न त्यक्ष्यामि ।" प्रधानः पराभूतः प्रत्यावृत्तः । तेन राजा वृत्तान्तममुमवगमितः । ततो राजा स्वयं वृद्धायास्समीपमाजगाम । उटजमयाचत च । स मधुररवेणोवाच - "मातः ! पुत्रस्य विज्ञप्तिं कथं न स्वीकरोषि ? उटजात् प्रति श्रेष्ठं गृहं बद्ध्वाऽहं तुभ्यं प्रदास्यामि । त्वं यावद् याचेथाः तावद् धनमपि दास्यामि । किन्तु भव्यराजप्रासादनिर्माणाय मह्यं त्वद्गृहं प्रयच्छ ।" तथाऽपि वृद्धा मनागपि न व्यचलत्, तया पुनरपि कथितो नृपः - "प्रस्तावमिमं विस्मर । ममैतावद्जीवनं मयाऽत्रैव व्यतीतम्, अहमत्राऽरमे, अपठम्, अनृत्यम्, बालत्वमत्र व्यतीतं, जरत्यपीहैव जाता, अथ च मरिष्येऽपीहैव । अहमिदमुटजं न दास्यामि । ममाऽन्यस्य गृहस्याऽऽकाङ्क्षाऽपि नास्ति । लक्ष्मीः संपत्तिश्चापि मम कृते किञ्चित्करी नास्ति । युष्मभ्यं युष्माकं राजप्रासादो रोचते । ततोऽपि मह्यं ममेदं त्रुटितं भग्नमुटजमतिप्रियमस्ति । मम पूर्वजैरनेकानि दुःखानि सहित्वोटजमिदं निर्मितमस्ति । अस्योटजस्य धरण्यामस्माकं कुलकुटुम्बस्य पूर्वजानां च जीवनस्य सुखदुःखयोरनेकानि संस्मरणानि निहितानि सन्ति । सततं तेषां ध्वनयोऽत्राऽऽगच्छन्ति । अन्नं प्राप्येतोताहो न प्राप्येत । नास्ति तस्य चिन्ता । किन्तु मम बहमूल्यानां संस्मरणानामहर्निशं स्मारकमिदमुटजं त्वहं कयाऽपि रीत्या दातुं शक्तिमती नास्मि । त्यक्तुं शक्तिमती नास्मि ।..." एवं वदत्या तस्या उभे नेत्रे बाष्पैः प्लावितवती । वृद्धाया इमां हृदयव्यथां श्रुत्वा नृपो नौशीरवानः स्वीयेच्छां त्यक्तवान् । नौशीरवानस्तस्मै मुहुर्मुहुराश्वास्य किञ्चित् साहाय्यमपि दत्वा स्वप्रासादं प्रत्यावृत्तः । यदि सोऽकाक्षिष्यत तर्हि स्वसामर्थ्याद वद्धाया निवासमग्रहीष्यत । किन्तु तदकार्यं स दयावान नीतिमान् नृपतिर्नाऽकरोत् । स वृद्धाया उटजवन्तं भागं त्यक्त्वा प्रासादस्य निर्माणार्थमादेशमकरोत् । कियच्चित्समयानन्तरं प्रासादनिर्माणं पूर्णं जातम् । किन्तु वृद्धाया उटजस्य रक्षणाय कोण एकस्त्यक्तः । फलतो राजप्रासादस्त्रिकोणाकारवान् सञ्जातः । तस्य च निरवशेषा शोभा भग्ना । कालः सरिद्वद् वहति स्म । एकदाऽऽपदपराऽऽगता । साऽऽपत्तिरियं यद् वृद्धा त्वाजीविकार्थं स्वनियमानुसारेणोटजस्य बहिर्भूमौ चणकान् प्रतिदिनं भृज्जति स्म । ६५

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86