Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
नौशीरवानस्य नीतिकथा
मुनिअक्षयरत्नविजयः (-पूज्याचार्यदेवश्रीधर्मसूरीश्वरसमुदायवर्ती)
हस्तिने दत्तं प्रभूतमपि भोजनं प्रायेण स्वल्पं भवति । किन्तु पिपीलिकायै दत्तं स्वल्पमपि भोजनं नितरां प्रभूतं भवति । कथं नाम तद् 'पिपीलिकायै दत्तमिति' घटते? एकस्य हस्तिन उच्छिष्टभोजनेनाऽप्यनेकशतानां पिपीलिकानां तृप्तिर्भवेदिति पिपीलिकायै दत्तं स्वल्पमपि तासां कृते प्रभूतं भवति । भारतीयराष्ट्रभाषायामप्यत एवोक्तं यद् 'हाथी मुखसे दाणा नीकले, कीडीकुटुम्ब सौ खावे ।' ।
यथेमाः पिपीलिकास्तथैव ह्यात्माथिनः स्वहितवाञ्छुकजनाः । यथा पिपीलिकायै दत्तं स्वल्पमपि तासां कृते प्रभूतं भवेत्तथा ह्यात्मार्थिनां स्वहितेच्छुकमानवानामपि प्राप्त किञ्चिदपि तेषां हितस्वरूपेण प्रभूतमेव भवेत् । तत्तु किञ्चिद् केनाऽपि रूपेण स्यात्; सत्यघटनारूपेण, सदुपदेशरूपेण, कथारूपेण, सुवाक्यरूपेण वा । किन्तु तानि सर्वाण्यात्मार्थिस्वहितकाङ्क्षिमनुष्येभ्यो निश्चयात् कल्याणायैव भवन्ति । तत्र न कोऽपि विकल्पः ।
आगच्छत, वयमद्य प्रथमं तु जीवनपरिवर्तकेन सुवाक्येन, तत्पश्चात्तु सुवाक्यानुपदिन्या प्रेरणादायिन्या सुकथया स्वहितचिन्तनं कुर्याम । तेन च वयमपि स्वात्महितार्थित्वं प्राप्नुयाम ।
तत् चित्तहरत्रिपदीमयं सुवाक्यमिदं यत् – '१. नीत्या प्राप्तव्यं २. रीत्या भोक्तव्यं ३. प्रीत्या दातव्यं' चेति । वयमिमां त्रिपदी पश्चानपा विचिन्तयामः ।
जीवनयात्रायां कदाचित् दानप्रसङ्गः समुपस्थितो भवेत् (अत्र प्रधानतया धनदानस्य प्रसङ्गो ग्रहीतव्यः) तदा सदैव सुवचनपूर्वकेन सस्मितवदनेन प्रदातव्यम् । तस्मिन् कारणद्वयमस्ति । (१) म्लानवदनेन प्रदत्तं दानं सुफलदायकं न भवति । (२) सुवचनपूर्वकेन सस्मितवदनेन प्रदत्तेन दानेन याचका हर्षयुगलं लभन्ते । कीदृशं तद् हर्षयुगलम् ? ईदृशम् - तत्र प्रथमो धनलाभस्य हर्षः, द्वितीयः
६३

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86