Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ - सारङ्गो मौनेन तेषां वार्तालापं शृणोति स्म । तेन चिन्तितं – 'वृथा किमर्थं निरर्थकेऽत्र वार्तालापे मया भागो ग्रहीतव्यः ?' अतः स गिटारवाद्येन सह प्राप्तस्य स्वराङ्कनपुस्तकस्य पठने मग्नोऽभवत् । इतश्च प्रकोष्ठे याचकानां विक्रेतॄणां यात्रिणां च गमनागमनमविरतं प्रचलति स्म । तावता तालान् वादयन्नपुंसकवृन्दं समागतमतः सर्वेषामप्यवधानं तत्राऽऽकृष्टम् । ततः प्रायो द्वादशवर्षदेशीयौ द्वौ भिक्षुबालकौ 'द्विनद्वयाद् बुभुक्षितौ स्वः, कृपया किञ्चिद् ददातु ' इत्युदित्वा याचेते स्म । तयोश्चैकस्य हस्ताघातेन चायपानं कुर्वतो यात्रिकस्य कस्यचन चायपात्रं किञ्चित्प्रकम्पितं चायपेयं च मनाग् विलुठितम् । एतेन क्रुद्धः स यात्रिकस्तं बालमाक्रोशति स्म - 'भोः ! दृश्यते न वा ? किमन्धोऽसि रे ! एतच्चायपेयं यन्मम वस्त्रोपरि विलुठितं तस्य लाञ्छनं (दाग ) किं तव जनकोsपनेष्यति वा ?' सारङ्गेण दृष्टं यच्चायपेयस्यैकोऽपि बिन्दुस्तद्वस्त्रोपरि नैव पतितः प्रत्युत किञ्चित् पेयं प्रकोष्ठकुट्टिमे विलुठितमासीत् । तावता वातावरणं भाररहितं कर्तुमेकेन युवकेन विनोदं कुर्वता कथितं - 'पितृव्य ! कोपं मा कार्षीत् । एतत्तु एवमेव चलिष्यति । एतादृशा एव बालका अस्माकं देशस्य भविष्यत् । मे भारतं महत् (मेरा भारत महान)' । एतच्छ्रुत्वा परितः स्थिताः सर्वेऽप्युच्चैर्हसितवन्तः । तदैवैका पञ्च षवर्षीया बालिका वर्षद्वयदेशीयं स्वभ्रातरं यथाकथञ्चिदपि समुत्थाप्य समागता । जर्जरितं वस्त्रं, सुगृहीनीडमिव केशान् दीनं च वदनं धारयन्त्या तया स्वभ्रातुर्निर्गण्डकं युतकमेव केवलं परिधापितमासीत् । अर्धोरुकमूरुकं वा कुतोऽपि न लब्धं स्यादतोऽधस्तात् स नग्न एवाऽऽसीत् । 'अहो ! अद्य तु नूतन: कलाकारः समागतः ' - इत्येकेन नित्यं गमनागमनं कुर्वता यात्रिणोक्तम् । सर्वेषां दृष्टिस्तयोरेव पतिता । सारङ्गोऽपि हि षण्मासेभ्योऽस्मिन्नेव याने यातायातं करोति स्म । किन्तु तेनाऽपि न कदाप्येतौ दृष्टचरौ । अथैका महिला करुणयोक्तवती – 'दिनद्वयात् पूर्वं या स्त्री रेलयानापघाते मृता तस्या एतौ बालौ । वराकौ निर्मातृकौ जातौ !!' । - श्रुत्वैतत् सर्वेषामपि चित्तानि दयार्द्राणि जातानि । प्रायः सर्वेऽपि स्वस्वकोषेभ्यो यत्किञ्चिद्धनं निष्कास्य तस्यै बालिकायै दातुं सिद्धा जाताः । किन्तु सा बालिका तु सारङ्गसम्मुखमेव पश्यन्ती स्थिता । केनचिदाहूता सेतस्ततो गत्वाऽपि पौनःपुन्येन सारङ्गसमीपमेवाऽऽगत्य तिष्ठति स्म । सारङ्गेण स्वकोषान्मिष्टिकाद्वयं निष्कास्य दत्तम् । एतेन स लघुर्बालो हृष्टो जातः । किन्तु सा बालिका ततोऽपि तत्रैव स्थिता । तस्या नेत्रयोरितोऽपि काचिद्याचना दृश्यते स्म । तामुपलक्ष्य सारङ्गेण पृष्टं – 'किं वाञ्छसि ? रूप्यकं दद्यां वा ?' ‘नैव स्वामिन् ! किन्तु अद्य मे भ्रातुर्जन्मदिनमस्ति' । 'एवं वा ? बाढम् ! तदर्थं किमपि क्रेतव्यं वा ?' ‘नैव स्वामिन् !' सा गिटार वाद्यं पश्यन्ती कथितवती 'किन्तु... यदि भवान्.... भवान् ६१

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86