Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सहानुभूतेलाभस्य हर्षः । एताभ्यां तेषां धैर्यमपि वर्धते । अत एव त्रिपदीमयसुवाक्यस्य तृतीयपदे कथितं प्रीत्या दातव्यमिति ।
जीवनप्रवासे कदाचित् पूर्वपुण्यसंयोगेन पारावारैश्वर्यलाभोऽपि भवेत् । तदा तस्य किं कर्तव्यम् ? यदि जनः सद्विचारशीलो न स्यात्तर्हि तस्य दुरुपयोगसम्भवः । तस्य सदुपयोग एव भवेदित्याशयतः प्रस्तुतं त्रिपदीमयसुवाक्ये द्वितीयपदं रीत्या भोक्तव्यमिति ।
अतः परमाद्यपदस्यचिन्तनं - जीवनप्रवाहे यानि कानिचिदपि प्राप्तव्यानि सन्ति, तानि सर्वाणि नीत्यैव प्राप्तव्यानि, न तु अनीत्या । यदि नीत्या न लभ्येत तर्हि त्यक्तव्यं किन्त्वनीत्या तु नैव प्राप्तव्यम् । अनीतिस्तु दुर्गतिदायपि भवितुं सुतरां शक्नोति । अत एव तस्या दुष्परिणामात् स्वात्मरक्षणाय कथितं त्रिपदीमयसुवाक्ये तृतीयपदं यन्नीत्या प्राप्तव्यमिति ।
अयं तु सुवाक्यस्य बोधः । किन्तु वयमस्य सुवाक्यस्य प्रथमपदमवलम्ब्य तस्य तात्पर्यप्रकाशिकां सुन्दरां कथामेकां योजयित्वा प्रेरणापानं कुर्याम ।
'इराना'ख्यजनपदस्येयं कथा । तद्राष्ट्रे नृपतिरेको बभूव । तस्याभिख्या 'नौशीरवान' इत्यासीत् । प्रजावत्सलस्य तस्य प्रकृतिरतिन्यायप्रिया दयावती चाऽऽसीत् ।।
एकस्मिन्नह्नि राजसिंहासन उपविष्टो राजा नौशीरवान एकं सुन्दरतमं प्रासादं निर्मातुं चिन्तितवान् । मनोरमराजप्रासादस्य निर्माणाय राज्यस्य श्रेष्ठाविश्वकर्माणः स समाह्वयत् ।
राज्ञ आदेशतो विश्वकर्माणः प्रासादाय सुन्दरं स्थलं गवेषयितुं लग्नाः । बहुगवेषणानन्तरं एकमभिरामं रुचिरं च स्थलं तैनिश्चितम् । राजमन्दिरस्य निर्माणार्थमनेके शिल्पकारका मिलितवन्तः ।
किन्तु तस्मिन् स्थान एकोऽन्तराय आसीत् । तत्रैकस्या वृद्धाया उटजमासीत् । सा वृद्धा वह्निनाऽन्नचणकान् पक्त्वा विक्रीय च स्वजीवनमयापयत् । तस्या गेहमत्यन्तं जीर्णमासीत् । इतश्च तस्य भङ्गं विना तत्र राजप्रासादस्य निर्माणमशक्यमासीत् ।
शिल्पकारकै राजा निवेदितः - "अये राजन् ! महासदनाय स्थानं तु लब्धमस्ति । तच्चाऽतिमनोज्ञमस्ति । किन्तु तस्मिन् स्थले कस्याश्चिद् वृद्धाया निवासोऽस्ति । तस्य भङ्गानन्तरमेव भव्यं राजमन्दिर निर्मातुं वयं शक्ष्यामः ।"
___ सस्मितवदनो नौशीरवानः प्राह – “किमेतस्मिन् ? वयं तस्या वृद्धाया वसनार्थमुटजात् प्रति सा यादृग् वाञ्छेत् तादृग, यावच्च वाञ्छेत् तावत् स्थानं समर्पयिष्यामः । यूयं चिन्ताविहीना भवत ।"
राजा मन्त्रिणमाकारयदादिशच्च - "गच्छ, तां वृद्धां कथय, यदुटजं त्यक्त्वाऽन्यस्मिन् स्थाने वसनाय गच्छतु, तस्मिन् स्थाने वयं भव्यराजमहालयं निर्मातुमिच्छामः।"
६४

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86